SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३० www.kobatirth.org काव्यमाला | Acharya Shri Kailassagarsuri Gyanmandir किंचान्यत्सुरसुन्दरी कुचतटप्रान्तावनद्धोत्तमप्रेङ्खल किनादसंकृतमहो तत्केन संवर्ण्यते ॥ २३ ॥ देव त्वत्प्रतिबिम्बमम्बुजदलस्मेरेक्षणं पश्यतां यत्रास्माकमहो महोत्सवरसो दृष्टेरियान्वर्तते । साक्षात्तत्र भवन्तमीक्षितवतां केल्याणकाले तदा देवानामनिमेषलोचनतया वृत्तः स किं वर्ण्यते ॥ २४ ॥ दृष्टुं धाम रसायनस्य महतां दृष्टं निधीनां पदं दृष्टं सिद्धरसस्य सद्म सदनं दृष्टं च चिन्तामणेः । किं दृष्टैरथवानुषङ्गिकफलैरेभिर्मयाद्य ध्रुवं दृष्टं मुक्तिविवाहमङ्गलगृहं दृष्टे जिनश्रीगृहे ॥ २५ ॥ दृष्टस्त्वं जिनराजचन्द्र विकसद्भूपेन्द्रनेत्रोत्पले - नातं त्वन्नुतिचन्द्रिकाम्भसि भवद्विद्वच्च कोरोत्सवे । नीतश्चाद्य निदाघजः क्लमभरः शान्तिं मया गम्यते देव त्वद्गतचेतसैव भवतो भूयात्पुनर्दर्शनम् || २६ ॥ इति श्री भूपालक विप्रणीता जिनचतुर्विंशतिका || समाप्तेयं जिनपश्ञ्चस्तवी ॥ श्रीदेवनन्दिप्रणीतं सिंडिप्रियस्तोत्रम् । सिद्धिप्रियैः प्रतिदिनं प्रतिभासमानै - जन्मप्रबन्धमथनैः प्रतिभासमानैः । श्रीनाभिराजतनुभूपदवीक्षणेन प्रापे जनैर्विर्तनुभूपदवी क्षणेन ॥ १ ॥ येन स्मरात्रनिकरैरपराजितेन For Private and Personal Use Only सिद्धिर्वधूर्धुवमबोधि पराजितेन । १. जन्माभिषेके. २. स्तोत्रस्यास्य त्रिचतुराणि मूलपुस्तकान्येवोपलब्धानि टीका तु न प्राप्ता. एकस्मिन्मूलपुस्तके टिप्पणं वर्तते तदेवात्रोद्धृतम् ३. देदीप्यमानैः. ४. प्रतिभयानुपमैः ५. नाभिराजतनुभूर्ऋषभनाथस्वामी तच्चरणविलोकनेन. ६. वितनवो मुक्तास्तेषां भूर्मोक्षभूमिस्तस्याः पदवी मार्गों रत्नत्रयात्मकः. ७. परा उत्कृष्टा, अजितेन एतन्नाम्ना जिनेन
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy