SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०२ काव्यमाला । यामिनीप्रथमसंगमकाले शोणतां यदभजहिजनाथः । तन्मधूनि ललनाकरपात्रे सोऽपि नूनमपिबत्प्रतिमूर्त्या ॥ ५ ॥ श्वासकीर्णनवनीरजरेणुच्छद्मना चषकसीधु पिबन्ती ।। कान्तपाणिपरिमार्जनशिष्टं मानचूर्णमपि कापि मुमोच ॥ ६ ॥ निष्ठितासवरसे मणिपात्रे पाणिशोणमणिकङ्कणभासः । कापिशायनधियाशु पिबन्ती काप्यहस्यत सखीभिरभीक्ष्णम् ॥ ७ ॥ यौवनेन मदनेन मदेन त्वं कशोदरि सदाप्यसि मत्ता । तद्वृथायमधुना मधुधारापानकेलिकलनास्वभियोगः ॥ ८ ॥ पुण्डरीककमलोत्पलसारैर्यत्रिवर्णमकरोत्किल वेधाः । किं तु कोकनदकान्तिचिकी पुर्नत्रयुग्ममधुना मधुपानात् ॥ ९॥ अङ्गसादमवसादितधैर्यो यो ददाति मतिमोहनमुच्चैः । सोऽपि सस्टहतया रमणीभिः सेव्यते कथमहो मधुवारः ॥ १० ॥ सीधुपानविधिना किल कालक्षेपमेव कलयन्मदनान्धः । कामिनी रहसि कोऽपि रिरंमुश्चाटुचारुपदमित्थमवादीत् ।। ११॥ (कुलकम्) उल्ललास विनिमीलितनेत्रं यन्मृगीशि मधूनि पिबन्त्याम् । तन्निपीतचपके स्फुरिताक्ष्यां लज्जयेव गतमन्नमवस्तात् ॥ १२ ॥ मद्यमन्यपुरुषेण निपीतं पीयते कथामिवति निहामुः । चन्द्रबिम्बपरिचुम्बितमेतत्कामिना बहिरहस्यत काचित् ।। १३ ॥ किं न पश्यति पतिं तव पार्श्वे धृष्ट एप सखि शीतमयूखः । आसवान्तरवतीर्य यदुच्चैः पातुमाननमुपैति पुरस्तात् ॥ १४ ॥ त्वत्प्रदष्टमथवा कथमग्रे दर्शयिष्यति मुखं स्ववधूनाम् । इत्युदीक्ष्य चषके शशिबिम्बं काप्यगद्यत सनमें सखीभिः ॥१५॥(युग्मम) स्त्रीमुखानि च मधूनि चपात्या द्वित्रिवेलमपर: कुलकन । अन्तरं महदिह अतिपद्य प्रीतिमासवरसेपु मुमान ।। १६ ॥ बिम्बितेन शशिना सह ननं पीवरोरुभिरपायत मद्यम् । यत्तदीयहृदयान्तरली निर्गतं सपदि मन्युतमोभिः ॥ १७ ॥ १. प्राङ्गणोपविष्टा. For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy