SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५ सर्गः] धर्मशर्माभ्युदयम् । समुच्छ्रसन्नीवि गलहुकूलं स्खलत्पदं सक्कणकङ्कणं वा । प्रियागमे स्थानकमायताश्या विसिस्मिये प्रेक्ष्य सखीजनोऽपि ॥ ७९ ॥ लावण्यमङ्गे भवती विभर्ति दाहश्च मेऽभूद्वयवधानतोऽपि । तद्रहि शृङ्गारिणि संप्रतीदं कुतस्त्वया शिक्षितमिन्द्रजालम् ।। ८० ॥ जाज्यं यदि प्राप्यमुरोजयोस्ते तद्वेपथुर्मानिनि मे कुतस्त्यः । इत्युच्चरंश्चाटुवचांसि कश्चित्प्रियामकार्षीच्युतमानवेगाम् ॥ ८१ ॥(युग्मम्) मानस्य गाढानुनयेन तन्व्या निर्वासितस्यापि किमस्ति शेषः । इतीव बोडं हृदि चन्दना व्यापारयामास कर विलासी ॥ ८२ ॥ सभ्रूभङ्गं करकिसलयोल्लासलीलाभिनीत प्रत्यग्रार्था प्रतिविदधती विस्मयस्मेरमास्यम् । सा दंपत्योरजनि मदनोज्जीविनी कापि गोष्ठी ___ यस्यां मन्ये श्रवणमयतां जग्मुरन्येन्द्रियाणि ।। ८३ ॥ चन्द्रे सिञ्चति चान्दनैरिव रसैराशा महोभिः क्षणा दुन्मीलन्मकरन्दसौरभमिव प्रादाय दूतीवचः । सोत्कण्ठं समुपेत्य कैरवमिव प्रोल्लासि कान्तामुखं स्वस्थाः केऽपि मधुव्रता इव मधून्यापातुमारेभिरे ॥ ८४ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये चतुर्दशः सर्गः। पञ्चदशः सर्गः । भर्गभालनयनानलदग्धं मन्मथं यदधिजीवयति स्म । कोऽपि कल्पतरुमध्वमृतं तत्पातुमारभत किंनरलोकः ॥ १ ॥ शीतदीधितिविकासि सुगन्धं पत्रवद्दशनकेसरकान्तम् । स्त्रीमुखं कुमुदवन्मधुपानां पातुमत्र मधुभाजनमासीत् ॥ २ ॥ यावदाहितपरित्रुति पात्रे चित्तमुत्तरलितं मिथुनानाम् । तावदन्तरिह बिम्बपदेन द्रागमज्जि वदनैरतिलोल्यात् ॥ ३ ॥ दन्तकान्तिशवलं सविलासाः सामिलापमपिबन्मधु पात्रे । श्लिष्यमाणमिव सोदरभावाद्वयक्तरागममृतेन तरुण्यः ।। ४ ॥ १. शैत्यं स्थौल्यं च. २. दलबक्तम् ; (पक्षे) पत्रवलरीमण्डनसमेतम् . For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy