________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ शिवमूर्तिशिवलिङ्गलक्षणाधिकाराख्यः ]
चतुर्थोऽध्यायः
अथ शिवमूर्तयः
[ द्वादश शिवमूर्तयः] शुक्लाम्बरधरं देवं शुक्लमाल्यानुलेपनम् । जटाभारयुतं कुर्याद् बालेन्दुकृतशेखरम् ॥ १ ॥ त्रिलोचनं सौम्यमुखं कुण्डलाभ्यामलङ्कृतम् । सद्योजातं महोत्साहं वरदाभयपाणिनम् ॥ २ ॥
इति सद्योजातः [१]। रक्ताम्बरधरं देवं रक्तयज्ञोपवीतिनम् । रक्तोष्णीषं रक्तनेत्रं रक्तमाल्यानुलेपनम् ॥ ३ ॥ जटाचन्द्रधरं कुर्यात्तिनेत्रं तुङ्गनासिकम् । वामदेवं महाबाहुं खड्गखेटकधारिणम् ॥ ४ ॥
इति वामदेवः [२] । दंष्ट्राकरालवदनं सर्पशीर्ष त्रिलोचनम् । रुण्डमालाधरं देवं सर्पकुण्डलमण्डितम् ॥ ५ ॥ भुजङ्गकेयूरधरं सर्पहारोपवीतिनम् । योनसं(?) कटिसूत्रेण गले वृश्चिकमालिकम् ॥ ६ ॥ नीलोत्पलदलश्याममतसीपुष्पसन्निभम् । पिङ्गभूपिङ्गजटिलं शशाङ्ककृतशेखरम् ॥ ७ ॥ (१)तक्षकं मुष्टिकञ्चैव पादयोस्तस्य नूपुरौ ।
अघोररूपकं कुर्यात् कालरूपमिवापरम् ॥ ८ ॥ (१) 'तक्षको मुष्टिकश्चैव' इति स्यात् ।
For Private And Personal Use Only