SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२ रूपमण्डने महावीर्य महोत्साहमष्टबाहुं महाबलम् । शमयन्तं रिपोः (१)सद्यं निवेशो यत्र भूतले ॥९॥ खटाङ्गश्च कपालञ्च खेटकं पात्रमेव च । वामहस्तेषु कर्त्तव्यमेतच्छस्त्रचतुष्टयम् ॥ १० ॥ त्रिशूलं परशुः (२)खड्गं दण्डश्चैवारिमर्दनः । शस्त्राण्येतानि चत्वारि दक्षिणेषु करेषु च ॥ ११ ॥ ___इत्यघोरः [३] । पीताम्बरस्तत्पुरुषः पीतयज्ञोपवीतवान् । मातुलिङ्गं करे वामेऽक्षमाला दक्षिणे तथा ॥ १२ ॥ इति तत्पुरुषः [४] । (३)शुद्धः स्फटिकसंकाशो जटाचन्द्रविभूषितः । (४)अक्षस्त्रिशूलहस्तौ च कपालं वामतः शुभम् ॥ १३ ॥* [इतीशः ५] कपालमालि-सुश्वेतं शशाङ्ककृतशेखरम् । व्याघ्रचर्मधरं मृत्युञ्जयं नागेन्द्रभूषितम् ॥ १४ ॥ त्रिशूलं चाक्षमाला च दक्षयोः करयोः स्मृतौ । कपालं कुण्डिका वामे योगमुद्रा (५)करद्वयम् ॥ १५ ॥ __इति मृत्युञ्जयः [६] । चतुर्भुजो महाबाहुः शुक्लपादाक्षिपाणिकः । पुस्तकाभयहस्तोऽसौ(६)सच काक्षस्त्रिलोचनः ॥ १६ ॥ इति किरणाक्षः [७] । (१) 'सङ्ख' इति स्यात् । (२) 'खगो' इति स्यात् । (३) 'शुद्धस्फटिक' इति स्यात् । (४) यक्षस्त्रिशूलहस्तश्च' इति, 'दक्षे त्रिशूलं हस्ते च' इति वा स्यात् । (५) 'करद्वये' इति स्यात् । (६) 'स-चक्राक्ष-' इति ['किरणाक्ष-' इति वा ?] स्यात् । _* पद्यमिदं मूर्त्यन्तरस्य लक्षकं न तु मृत्युञ्जयमूर्तेः, द्विरायुधनिर्देशात् । भवति च मृत्युञ्जयलक्षकत्वेन भ्रान्तिरन्तरा पुष्पिकान्तरविरहात् । देवतामूत्तौ 'ईश'लक्षणत्वेनेदं निर्दिष्टम् ( देव० ६।१४); तदनुगत्याऽस्माभिरपि पुष्पिकैका कल्पिता; एवञ्चाले 'इति द्वादश रुद्रा' इति पुष्पिकाऽपि नानृतभाषिणी स्यात् ।। For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy