SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २० रूपमण्डने शृङ्गी वामेषु हस्तेषु योगमुद्रा (१)करद्वयम् । नरञ्च नारसिंहञ्च शूकरं कपिलाननम् ॥ ६२ ॥ ___ इति त्रैलोक्यमोहनः । दक्षिणे पुण्डरीकाक्षः पूर्वे नारायणः स्मृतः । गोविन्दः पश्चिमे स्थाप्य उत्तरे मधुसूदनः ॥ ६३ ॥ ईशाने स्थापयेद् विष्णुमानेय्यां तु जनार्दनम् । नैर्ऋत्ये पद्मनाभञ्च वायव्ये माधवं तथा ॥ ६४ ॥ केशवो मध्यतः स्थाप्यो वासुदेवोऽथवा बुधैः । सङ्कर्षणो वा प्रद्युम्नोऽनिरुद्धो वा यथाविधि ॥ ६५ ॥ दशावतारसंयुक्तः प्रोक्तो जलशयोऽथवा । अग्रतः शूकरः स्थाप्यः सर्वदेवमयः शुभः ॥६६॥ ___ इति विष्ण्वायतनम् । प्रतिहारांस्ततो वक्ष्ये चतसृणां दिशां क्रमात् । वामनाकाररूपास्ते कर्तव्याः सर्वतः शुभाः ॥ ६७ ॥ (२)तर्जनी शङ्खचक्रे च चण्डो दण्डं दधत् क्रमात् । वामे स्थाने प्रचण्डोऽस्यापसव्ये दक्षिणे शुभः ॥ ६८ ॥ पद्मं खड्गं खेटकञ्च क्रमाद् बिभ्रद गदां (३)च यः । (४)विलोमे पद्मगदयोर्विजयस्तौ (५)क्रमाल्लिखेन्यसेत् ॥ ६९ ॥ (६)तर्जनी बाणचापौ च गदां धाता च सृष्टितः । (७)मुदापसव्ये तैरस्त्रैर्विधाता वाम-दक्षयोः ॥ ७० ॥ तर्जनीकमलं शङ्ख गदां भद्रः क्रमाद् दधत् । (८)शस्त्रापसव्ययोगेन सुभद्रस्तौ क्रमान्न्यसेत् ॥ ७१ ॥ इति विष्णुप्रतीहाराः । इति श्रीसूत्रधारमण्डनविरचिते वास्तुशास्त्र रूपमण्डने विष्णुमूर्त्या?य॑)धिकारस्तृतीयोऽध्यायः ॥ ३ ॥ (१) 'करद्वये' इति स्यात् । (२) 'तर्जनी' इति स्यात् । (३) 'जयः' इति स्यात् । (४) 'विलोमैः' इति स्यात् । (५) 'क्रमाल्लिखेत्' इति ‘क्रमान्न्यसेत्' इति वा स्यात् । (६) तर्जनी' इति स्यात् । (७) 'सव्येऽपसव्ये' इति स्यात् । (८) 'सव्यापसव्यः' इति स्यात् । For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy