SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयोऽध्यायः (१)वामाग्रे कुञ्चितः पश्चादन्यपादस्तु जानुना । पृथिवीं संस्थितो यत्र गारुडं स्यात्तदासनम् ॥ ५१ ॥ ___ इति (२)गारुडः। वैकुण्ठञ्च प्रवक्ष्यामि सोऽष्टबाहुर्महाबलः । ताासनश्चतुर्वक्त्रः कर्तव्यः शान्तिमिच्छता ॥ ५२ ।। गदां खड्गं चक्रशरं दक्षिणे च चतुष्टयम् । शङ्ख खेटं धनुः पद्मं वामे दद्याच्चतुष्टयम् ॥ ५३ ॥ अग्रतः पुरुषाकारं नारसिंहं च दक्षिणे । अपरं स्त्रीमुखाकारं वाराहास्यं तथोत्तरम् ॥ ५४ ॥ इति वैकुण्ठः । विंशत्या हस्तकैयुक्तो विश्वरूपश्चतुर्मुखः ।। पताका हलशङ्खौ च वज्राङ्कुश(३)शरांस्तथा ॥ ५५ ॥ चक्रञ्च (४)बीजपूरञ्च वरो दक्षिणबाहुषु । पताका दण्डपाशौ च गदाशार्होत्पलानि च । शृङ्गी मुशलमक्षश्च क्रमात् स्युमिबाहुषु ॥ ५६ ॥ हस्तद्वये योगमुद्रा वैनतेयोपरि स्थितः । क्रमान्नर-नृसिंह-स्त्री-वराह-मुखवन्मुखः ।। ५७ ॥ इति (५)विश्वमुखः । अनन्तोऽनन्तरूपस्तु हस्तैदशभिर्युतः । अनन्तशक्तिसंवीतो गरुडस्थश्चतुर्मुखः ॥ ५८ ॥ दक्षिणे तु गदाखड्गौ चक्रं वज्राङ्कुशौ शरः । शङ्खः खेदं धनुः पद्मं दण्डपाशौ च वामतः ॥ ५९ ॥ इत्यनन्तः। मुखानि पूर्ववत्तस्याप्यत्र त्रैलोक्यमोहनः । स षोडशभुजस्ताारूढः प्राग्वच्चतुर्मुखैः ।। ६० ॥ गदाचक्राङ्कुशौ (६)बाणं शक्तिश्चक्रं वरः क्रमात् । दक्षेषु मुद्गरः पाशः शार्ङ्गशङ्खाब्जकुण्डिका(:) ॥ ६१ ॥ (१) 'वामोऽग्रे' इति स्यात् । (२) 'गरुडः' इति स्यात् । (३) '-शरास्तथा' इति स्यात् । (४) 'बीजपूरश्च' इति स्यात् । (५) 'विश्वरूपः' इति स्यात् । (६) 'बाणः' इति स्यात् । For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy