________________
Shri Mahavir Jain Aradhana Kendra
१८
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रूपमण्डने
वासुदेवं सितं ज्ञेयं रक्तं सङ्कर्षण मतम् । दामोदरं तु नीलाभमनिरुद्धं तथैव च ॥ ४० ॥ श्यामं नारायणं ज्ञेयं वैष्णवं कृष्णवर्णकम् । बहुवर्णभनन्ताख्यं श्रीधरं पीतमुच्यते ॥ ४१ ॥ [ उत्तमादिचक्रप्रमाणम् ] वृत्त (१) सूत्रेऽष्टमो भाग उत्तमं ( २ ) वक्लक्षणम् । मध्यमञ्च चतुर्भागं कनीयस्तु त्रिभागकम् ॥ ४२ ॥ [ त्रिचक्रलक्ष्मीनारायणः ] लक्ष्मीनारायण देवस्त्रिभिश्वकैर्व्यवस्थितः ।
पूजनीयः प्रयत्नेन भुक्तिमुक्तिफलप्रदः ॥ ४३ ॥ [ शालग्रामस्य प्रतिष्ठानिषेधः ] अहं ब्रह्मादयो देवाः सर्वभूतानि केशवः । सदा सन्निहितस्तत्र प्रतिष्ठाकर्म नास्त्यतः ॥ ४४ ॥ शालग्रामप्रशंसा ] शालग्रामशिलाग्रे तु यो जुहोति हुताशनम् । एकाहुतिर्हुता सम्यक् कल्पकोटिगुणोत्तरा ॥ ४५ ॥ इति शालिग्रामपरीक्षा |
[ अथ मूर्त्तिविशेषाः ]
ताक्ष्यों (३) मकङ्कतः प्रक्षः कौशिकाकारनासिकः । चतुर्भुजस्तु कर्त्तव्यो वृत्तनेत्रमुखस्तथा ॥ ४६ ॥ गृधोरुजानुचरणः पक्षद्वयविभूषितः । प्रभासंस्थानसौवर्णः कलापेन विभूषितः ॥ ४७ ॥ छतञ्च पूर्णकुम्भञ्च करयोस्तस्य कारयेत् । करद्वयञ्च कर्त्तव्यं तथा विरचिताञ्जलि || ४८ ॥ नवताल : प्रकर्त्तव्यो गरुडो मानसूत्रतः । (४) पादजानुकटिवदचीयां वाहनस्य दृक् ॥ ४९ ॥ यदुश्च भगवान् पृष्ठे छलकुम्भधरौ करौ । किञ्चिलम्बोदरः कार्यः सर्वाभरणभूषितः ॥ ५० ॥
(१) ' सूत्राष्टमो' इति स्यात् । (२) 'चक्र -' इति स्यात् । प्रख्यः' इति स्यात् । (४) ' पादं जानु कटिं यावदर्चायां' इति स्यात् ।
For Private And Personal Use Only
(३) ' मरकत