________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टमोऽध्यायः
१४६ वरं तथाऽङ्कुशं दण्डं परशु चाभयं क्रमात् । कपालञ्च शरश्चाक्षमालापाशगदा करे ॥ २२ ॥ पञ्चवक्तं त्रिनेत्रश्च हेरम्बञ्च गणेश्वरम् । मूषके च समारूढं सर्वकामार्थसाधकम् ॥ २३ ॥
इति हेरम्बः रक्ताङ्गो गजवक्तः स्याद् रत्नकुम्भं तथाऽङ्कुशम् । परशुश्च तथा द(न्तो?न्तं) दक्षिणाधःकरक्रमात् ॥ २४ ॥
___ इति गजाननः इत्येवं पुष्पिका दृश्यते । परं प्रथमश्लोके चतुर्णाम्, द्वितीये च दशानामायुधानां दर्शनादिह गणेशस्य पृथक् लक्षणादर्शनात्, रूपमण्डने (अ० ५, श्लो० १६-१७) उभयोरेव पृथक् लक्षणदर्शनाच्च एतच्श्लोकानन्तरम् [ इति गणेशः ] इत्येवं बन्धन्यन्तः पुष्पिकैका निवेशिता। शिल्परस्ने आयुधानां भेदो दृश्यते यथा
विघ्नेशं सपरश्वधाक्षवटिकादण्डोल्लसल्लण्डकै>भिः पाशसणीस्वदन्तवरदाढ्यैर्वा चतुभिर्युतम् । शुण्डाग्राहितबीजपूरमुरुकुक्षि श्रीक्षणं संस्मरेत् सिन्दूराभमिभास्यमिन्दुशकलाद्याकल्पमब्जासनम् ॥
(शि० उ० अ० २५, श्लो० ५७) इति । परमिदं गणेशस्य वा वक्ष्यमाणवक्रतुण्डस्य वा लक्षणं नोभयोरपि वेति सुधीभिर्भाव्यम् । तत्र तु 'अथ बीजगणपति रित्युपक्रम्य लक्षणान्येतानि लिखितानि दृश्यन्ते ।
२२ । इदानी हेरम्ब निर्दिशति-धरमिति । अत्र कण्ठतोऽनुक्तत्वेऽपि एतन्मते अयं दशभुज इत्यायाति, आयुधानां तावत्संख्याकत्वदर्शनात् । शिल्परत्नेऽपि 'अथ हेरम्बः' इत्युपक्रम्य सार्धश्लोकत्रयेण तल्लक्षणमुक्तम्, तत्रापि दशभुजत्वमेव दृश्यते ( उ० अ० २५, श्लो० ५८-६१ ) । रूपमण्डने तु
वरं तथाऽङ्कुशं दण्डं दक्षिणे पार्श्वभागयोः ।
वामे कपालं बाणाक्षं पाशं कौमोदकी तथा ॥ (अ० ५, श्लो० १६) इति विषमः पाठो विषमा चोभयतः पार्श्वयोरायुधरचना दृश्यते ।
२३। पञ्चवक्तू त्रिनेत्रमिति गणेशहेरम्बयोः साधारणं लक्षणम्, गणेशलक्षणे वक्तनेत्रयोरनुल्लेखात्, अत एव 'हेरम्बञ्च गणेश्वर'मित्यत्रोभयोरेव विशेष्यपरताऽभ्युपेया न त्वेकस्य विशेषणपरताऽपि ।
For Private And Personal Use Only