________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१५०
देवतामूर्त्तिप्रकरणम्
लम्बोदरं त्रिनयनं पाशाङ्कुशधरं परम् । वरदाभयहस्तञ्च चलत्कर्णं ( समाचरम् ? सचामरम् ) ॥ २५ ॥
इति वक्रतुण्डः
Acharya Shri Kailassagarsuri Gyanmandir
उच्छिष्टं मूषकस्थञ्च त्र्यक्षं व्यालोपवीतिनम् । भग्नदन्ताक्षसूत्रञ्च परशुं मोदकक्रमात् ॥ २६ ॥
इत्युच्छिष्टगणपतिः सिन्दूराभं त्रिनेत्रञ्च (म?अ ) भयं मोदकं (वच तथा ) । टङ्कं शरोऽक्षमाला च मुद्गरं चाकूशं तथा । त्रिशूलं चेति हस्तेषु दधानं कुन्दवत् सितम् ॥ २७ ॥
इति हेरम्बः
पाशाङ्कुशौ कल्पलता (भृङ्गीभृङ्ग) विभ्रत् करेषु च । शशिमौलस्त्रिनेतच रक्तः चित्रगणाधिपः २८ ॥
[ इति क्षिप्रगणपतिः ]
२५ । वक्रतुण्डं लक्षयति – लम्बोदरमिति । प्रमाणान्तरानुपलम्भेऽपि ग्रन्थकृता कृतया पुष्पिकया वक्रतुण्ड एवायं न लम्बोदर इति जानीमः ।
२६ । उच्छिष्टगणपतिमाह - उच्छिष्टमिति । अयं रूपमण्डने नास्ति । शिल्परत्ने तु बीजगणपतिप्रस्तावे -
रक्ताक्षमालां परशुञ्च दण्डं भक्ष्यञ्च दोर्भिः परितो दधानम् । मावदातं त्रिदशं गजास्यं लम्बोदरं तं शिरसा नमामि ॥ ( उ० अ० २५, श्लो० ०५५ ) इति प्रकृतोच्छिष्टगणपतिलक्षणान्वितः कश्चिद् गणपतिर्लक्षितो दृश्यते । 'भक्ष्यं' मोदकम् । २७ । सिन्दूराभमिति । नायं रूपमण्डने न वा शिल्परत्ने उपलभ्यते । पूर्व द्वाविंशत्रयोविंशश्लोकाभ्यामेको हेरम्बो लक्षितः पुनरवरोऽपि लक्ष्यत इत्यहो हेरम्बग्रहिलता ग्रन्थकर्तुः ।
२८ । पाशाङ्कुशाविति । अयमपि रूपमण्डने नास्ति, अस्ति च शिल्परत्ने; परं तत्र भृङ्गस्थाने 'स्वरदः' पदं करोति । तथाच
पाशाङ्कुशकल्प (क) लतिकास्वरदा बीजपूरयुतः । शशिशकलकलितमौलिस्त्रिलोचनोऽरुणतनुश्च गजाननः ॥
इति । एवञ्चात्र 'भृङ्गमित्यत्र 'दण्डमिति पाठः कल्पनीयो न वेति सूधीभिश्चिन्तनीयम् ।
For Private And Personal Use Only