SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टमोऽध्यायः १४७ कुण्डलाभ्यामलङ्कता सर्वाभरणभूषिता । मध्ये देवी प्रतिष्ठा( प्य?प्या ) चेश्वरस्य सदा प्रिया ॥१७॥ [इति गौर्यायतनम् ] अभयाङ्कुशपाशं दण्डं जया चैव तु पूर्वतः। सव्यापसव्ययोगेन (न ? वि )जया नाम सा भवेत् ॥ १८ ॥ अभयाङ्कुशपाशदण्डम् अजितासव्येऽपराजिता। अभयवज्राङ्कुशदण्डं विभक्ताङ्कशापसव्ये मङ्गला । अभ( या?यं ) शङ्खपद्मदण्डं मोहिन्य( पि सव्ये सभिनीपसव्ये स्तम्भिनी) ॥ १६ ॥ जया च विजया चैव अजिता चापराजिता। विभक्ता मङ्गला चैव मोहिनी स्तम्भिनी तथा। गोर्यायतने शस्ता (चाश्च) अष्ट (स्याद्स्युः )द्वारपालिकाः॥२०॥ [इति गौर्याः प्रतीहाराः] सौम्य इत्युत्तरस्याम्, एतेन पश्चिमास्या प्रतिमेति ग्रन्थकर्तुरभिप्रायः प्रतिभाति । पृष्ठे कर्णे तथा द्वाभ्यामिति 'पृष्ठकर्णद्वये कार्या भगवती सरस्वती' इति रूपमण्डने (अ० ५, श्लो० ९ ] संस्कारशुद्धः पाठः । अत्र ऐशानाग्नेययोर्वक्ष्यमाणत्वात् "पृष्ठकर्णद्वय'पदेन वायुनैर्ऋतकोगद्वयं बोध्यम् । एवञ्च-प्रध्यवत्तिन्यां प्रतिमायां पूर्वास्यायां सत्यामेव वायुनैर्ऋतकोणद्वयं पृष्टतः स्यादिति पूर्व पश्चिमास्यपरतामवलम्ब्य यद् व्याख्यात तद् व्याहतमित्यन्यथा व्याख्यायते-वामे वामभागे पूर्वास्यत्वादुत्तरस्यां दिशीत्यर्थः, सौम्ये दक्षिणे भागे दक्षिणस्यां दिशीत्यर्थः । अत्र गौर्यायतने पूर्वस्यां दिशि मूर्तिविशेषाश्रवणात् 'लिङ्गस्याग्रे न कर्त्तव्या ह्यारूपेण देवता' (अ० ३, श्लो०-) इतिवदनापि गौर्यग्र मूर्ति विधेयेत्यायाति, तत्र लिङ्गपदस्योपलक्षणपरत्वव्याख्यानाद्वा। . १८-१९ । इदानी गौर्याश्चतसृषु द्वाएं चतस्रो द्वारपालिका आह-अभयेति। पूर्वादितः प्रादक्षियन ( पूर्व-दक्षि ग-पश्चिमोत्तरक्रमेण ) प्रतिद्वारं द्वे द्वे द्वारपालिके वामदक्षिणोदुम्बरयोः For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy