________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४६
देवतामूर्तिप्रकरणम् अक्षसतं पुस्तकश्च धत्ते पद्मं कमण्डलुम् । चतुर्वक्ता तु सा(वि ? त्री) श्रोत्रियाणां गृहे हिता ॥११॥
[इति सावित्री] अक्षसूत्रं वज्र(शक्तिशक्ती) तस्याधश्च कमण्डलुः। (त्रिखण्ड?ण्डां) पूजयेन्नित्यं सर्वकामफलप्र(दादाम् )॥१२॥
[इति त्रिखण्डा] शूलाक्षसूत्रं दण्डञ्च (श्वेतचामकरे?श्वेतचामरकं ) तथा । श्वेतदेहा भवे (देही?देवी ) तोतला पापनाशिनी ॥ १३ ॥
[इति तोतला] पाशाङ्कुशाभयवरं चतुर्हस्तेष्वनुक्रमात् । त्रिपुरा नाम संपूज्या वन्दिता त्रिदशैरपि ॥ १४ ॥
[इति त्रिपुरा] इति द्वादश गौर्यः वक्ष्यामि गौर्यायत (नं ? न) देवतानामनुक्रमम् । वामे (स्याद्धिसिद्धिः) श्रिया सौम्ये सावित्री चैव पश्चिमे ॥१५॥ (पृष्टिःपृष्ठे ) कर्णे तथा द्वाभ्यां भगवती सरस्वती। ईशाने च गणेशः स्यात् कुमार(म? श्चा)ग्निकोणके ॥ १६ ॥
कमण्डल्वक्षसूत्रञ्च बिभ्राणा वजूमङ्कुशम् ।
गजासनस्थिता रम्भा कर्त्तव्या सर्वकामदा ॥ (अ० ५, श्लो० ५) इति रम्भालक्षणमुपलभ्यते। १२। त्रिखण्डा रूपमण्डनं न मण्डयति ।
शूलाक्षसूत्रं दण्डञ्च बिभ्राणा चैव चामरम् ।
तोतला कथिता चेयं सर्व(कोप ? पाप )प्रणाशिनी ॥ इति निःसन्दिग्धार्थः पाठो रूपमण्डने (अ० ५, *लो० ६ )।
१५-१७। गौर्यायतनं लक्षयति-वक्ष्यामीत्यादिना। वामे इति दक्षिणस्यां दिशि,
१३।
For Private And Personal Use Only