SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमोऽध्यायः - - [वर्णविशेषेषु मूर्तिभेदेन विष्णोः शुभदायकत्वम् ] नारायणः केशवश्च माधवो मधुसूदनः। स्थापिता मूर्तयो (ोते? ह्येता?) विप्राणां सुखदाः सदा ॥१॥ मधुसूदनविष्णुश्च (खाड ? खड्ग)शूलधरं लिखेत् । क्षत्रियाणां फलप्रदौ वैश्यानामर्चने शुभौ ॥२॥ पूजिता (श्री)धरी मूर्तिः शूद्राणाश्च सुखप्रदा। चर्मकृद्रजकानाञ्च नटस्य वरटस्य च ॥३॥ मेदभिल्लकिरातानां हृषीकेशः सुखावहः। कुम्भकारबणिग्वैश्यचाक्रिकाणां ध्वजस्य च ॥४॥ सर्वासां प्रकृतीनाञ्च पद्मनाभः सुखप्रदः। दामोदरः सौख्यकरो ब्रह्मचार्येकदण्डिनोः॥५॥ हरि हिरण्यगर्भश्च नारसिंहमतः परम् । वामनश्च वराहश्च सर्ववर्णषु सौख्यदम् ॥ ६॥ २। एतेन मधुसूदनो विष्णुश्चाविशेषेण क्षत्रियाणां वैश्यानाञ्च शुभदावित्यायाति । रूपमण्डने पुनरन्यथैव दृश्यते। तथाच मधुसूदनविष्णू व क्षत्रियाणां फलप्रदौ । त्रिविक्रमो वामनश्च वैश्याना(मर्चयेच्छुभा ? मर्चने शुभौ)॥ (अ० ३) इति । एष एव च पाठो युक्त इति प्रतिभाति । ३। शूद्राणाञ्चेति चकाराद ब्रह्मक्षत्रविशामपि सुखप्रदेत्यनुमीयते। रूपमण्डने पुनः 'शूदाणां सौख्यदायिनीति पाठः। । मेदो म्लेच्छजातिविशेषः, ध्वजः शौण्डिकः । अत्र द्वितीयाधैं 'कुम्भकारबणिक्वैश्यचाक्रिकध्वजिनामपि' इति सुखबोध्यः पाठो रूपमण्डने। एवञ्चैतन्मते वैश्यानां मधुसूदनविष्णुहृषीकेशाः, रूपमण्डनमते त्रिविक्रमवामनहृषीकेशाः सुखावहा इति स्थितम् । For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy