________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थोऽध्यायः
[ईशानः] वरश्चैव त्रिशूलश्च नागेन्द्रं बीजपूरकम् । वृषारूढं प्रकर्त्तव्यमीशानं (मित्र ? मन्त्रि)कोणके ॥६६॥
इति दश दिक्पालाः।
यस्माद् ब्रह्मा वेदविद्याः समस्ता आदित्याद्याः खेचरा धिष्ट्यचक्रम् । दिकपालाद्यं व्यक्तरूपञ्च जातं (वन्येन्द्यो) विष्णुर्विश्वस्मृक पाल(कस्यः? कोऽसौं)॥६७॥ इति क्षेत्रा(वात्म)जसूत्रभृन्मण्डनविरचिते वास्तुशास्त्रे देवतामूर्तिप्रकरणे रूपावतारे ब्रह्म-सूर्य-नवग्रह-दशदिक्पालाधिकार
श्चतुर्थोऽध्यायः ॥४॥
६६। मन्त्रिकोणके इति देवमन्त्रिणो बृहस्पतेः कोणे ईशान दिशीत्यर्थः।।
६७। यस्माद ब्रह्मादिव्यक्तरूपान्तं जगजातम् असौ विश्वसृक् पालक विष्णुर्वन्ध इत्यन्वयः। खेचरा ग्रहाः, विष्व्यचक्रं नक्षत्रमण्डलम् , व्यक्तरूपं भूतलम् ।
देवता-१०
For Private And Personal Use Only