________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवतामूर्तिप्रकरणम् वत्सेनात्रिमुखे कुर्याद् यात्राद्वारे च वास्तुनः। प्रवेशे प्रतिमादीनां गुविणीनां विशेषतः ॥५॥
सतीत्यर्थः, इति पूर्वोक्तप्रकारेण सप्तरात्रं सप्ताहं शान्तयः, तथा द्विजविबुधगणार्चा द्विजदेवगणपूजा गीतनृत्योत्सवाश्च यैरवनिपालैः विधिवत् प्रयुक्तास्तेषां दुरितपाक उत्पातजनितानिष्टफलं न भवति, दक्षिणाभिः एतत्कार्याङ्गभूतदक्षिणाप्रदानादिभिश्च रुद्धो निवारितो भवतीत्यर्थः ।
एतदन्त उत्पाताध्यायः सर्वथा बृहत्संहितीयोत्पाताध्यायानुरूपः (बृहत्संहिता अ० ४५)। केवलं पञ्चचत्वारिंशश्लोकादूनपञ्चाशश्लोकान्तोऽशस्तत्र न दृश्यते ।
५८। वत्से इत्यादि। तथा विकृतपाठः श्लोकोऽयं यथास्य प्रकरणमपि न सुविज्ञानम् । एवमपि द्वारादिपददर्शनात् सन्निवेशविशेषाञ्च द्वारसम्बन्ध्येवायं श्लोक इत्यस्माकं प्रतिभा। दृश्यते हि प्रधानद्वारस्य तैस्तैवेंधे कर्तुरशुभादिवर्णनम् । तथा च बृहत्संहितायाम्
मार्गतरुकोणकूपस्तम्भभ्रमविद्धमशुभदं द्वारम् ।
उच्छायाद द्विगुणमितां त्यक्त्वा भूमि न दोषाय ॥ इति । (अ० ५२, ७४ श्लो०) अस्यार्थः-मार्गः पन्थाः, तरुव॒क्षः, कोणोऽस्रिः, कृपस्तम्भौ प्रसिद्धौ, भ्रमो जलनिर्गमनप्रदेशः। एतैः सम्मुखैार विद्धमशुभदम् । कियति दूरे स्थितो वेधने न दुष्टफलदो भवतीत्याह-- उच्छ्रायादिति । यावान् द्वारस्य उच्छ्राय उच्चत्वं तद्दिगुणप्रमाणां भूमिं त्यक्ता बहिः स्थिता दोषायैव एते दोषा न भवन्ति इत्युत्पलभट्टः। मयमते
वृक्षकर्णावधःस्थूणकूपविद्धं तथैव च ॥ देवायतनविद्धञ्च विधिविद्धं तथैव च ।
घल्मीकभस्मविद्धञ्च शिरामर्मादिविद्धकम् ॥ इति । (अ० ३०, ३८-३९ श्लो०) विधिविद्धमिति ब्रह्मणा विद्वमित्यर्थः, स च वास्तुमध्यस्थो वा प्रतिमात्मा वा। शिल्परत्ने च
मार्गकूपतरुस्तम्भकोणपीडमशोभनम् ।
मुख्यद्वारस्य देवानां नराणाञ्च विशेषतः ॥ इति । (पूर्व० अ० २२, २१-२२ श्लो०) एवञ्च
वृक्षे नाभिमुखे कुर्याद् यात्राद्वारञ्च वास्तुनः । इति पूर्वाद्धं कृतशुद्धिः पाठः । उत्तरार्द्ध समानम् । तथा चायमर्थः-वृक्षे अभिमुखे सम्मुखवत्तिनि सति, प्रतिमादीनां विशेषतो गुर्विणीनां प्रवेशे गृहे च अभिमुखे सति वास्तुनो यात्राद्वारं प्रधान द्वारं न कुर्यात् । प्रविशन्त्यस्मिन्निति प्रवेशो गृहम् । प्रतिमादीनामित्यादिपदादनुक्तानां
For Private And Personal Use Only