SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमोऽध्यायः [उत्पातानां फलकालः] मासैश्चाप्यष्टाभिः सर्वेषामेव फलपाकः ॥५४॥ [एतेषां शान्तिः] बुद्धा देवविकारं शुचिः पुरोधास्त्र्यहोषितः स्नातः। स्नानकुस्तु(सु)मानुलेपनवस्त्ररभ्यर्चयेत् प्रतिमाम् ॥ ५५ ॥ मधुपर्केण पुरोधा भक्ष्यबलिभिश्च विधिवदुपतिष्ठेत् । स्थालीपाकं जुहुयाद् विधिवन्मन्त्रैश्च तल्लिङ्गः ॥ ५६ ॥ [शान्तिफलम् ] इति विबुधविचा(कारे शान्तयः सप्तरात्रं द्विजविबुधगणार्चा गीतनृत्योत्सवाश्च । विधिवदवनिपालथै (यः ? ) प्रयुक्ता न तेषां भवति दुरितपाको दक्षिणाभिश्च रुद्धः ॥५॥ ५४। रक्षःपिशाचेत्यादि। एवमेवेति। एतदुक्तं भवति-यथा देवकुमारादौ प्रोदभूत वैकृतं नृपस्य कुमारादौ अनिष्टजनकम् एवं रक्षःपिशाचगुह्यकनागानां पुत्रादावपि प्रोदभूतं वैकृत नृपस्य पुत्रादावनिष्टसाधनमित्यर्थः। मासैश्राप्यष्टाभिरिति। सर्वेषामेव वैकृतानाम् अष्टाभिर्मासैः फलपाको भवतीत्यर्थः । अष्टाभिर्मासै रित्यपवर्ग तृतीया, तथा चाष्टमासाभ्यन्तर एवामृतानि फलमुपदर्शयन्तीत्यर्थः। एवञ्च पूर्व 'पण्मासात्तिगुणं परम्' (४७) इति यदुक्तं तदपि साधु सङ्गच्छते । मत्स्यपुराणे_ 'त्रिभिर्वषैस्तथा ज्ञेयं सुमहद भयकारकम्' (अ० २२९, १२श्लो०) इति वर्षनयाभ्यन्तरे फलपाककाल उक्तः। अत एवोत्पलभट्टोऽपि 'अष्टाभिर्मासैरि'त्यस्य अष्टाभिर्मासैरतीतैरित्यर्थमाह (बृहत्संहिता, अ० ४५, १४ श्लो०)। ५५ । इदानीम् उत्पातानां शान्तिमाह-बुद्ध ति। स्नानं स्नानीयं जलम् । त्र्यहोपितस्त्रयहोपोषितः दिनत्रयं कृतोपवास इत्यर्थः। प्रतिमाम् उत्पन्नविकाराम् । ५६। मधुपर्केणेति। स्थालीपाकं चरु तल्लिङ्गैस्तत्तद्देवतानुमापकैर्मन्त्रैस्तत्तद्देवताया हवनमन्त्रैर्जुहुयात् । ५७। शान्तिफलं शान्त्यवधिञ्चाह-इतीति। विबुधविकारे देवकृतोत्पाते जाते देवता-५ For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy