SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रारब्धकर्मक्षये प्रनीभूता भवन्तीति श्रुत्वादिभिरुपदिश्यते । अतः औतभावापादकं ज्ञानावलम्बनमन्तरद्रोपासनमद्वैतमिति, मन्त्रजपपूजनादिबायकरणव्यापारात्मककर्मावलम्बनं बायोपासनं मतमिति च भीमच्छंकरभगवत्पादायैः प्राचाबहुधा प्रयश्चितम् ॥ न हि निराकारं निर्गुणं निरवयव किश्चिदुपासनाविषयं भवितुमहति । उपासनायां हि उपास्योपासकोपासनाख्यं त्रिपुटीभानमपेक्षित भवति । अतो मुमुक्षोरादितस्साकार सगुणं सावयवं गणेशादिरूपं ब्रदेष उपासनाविषयं भवितुमर्हति । ततोऽनवरतध्यानाद्यभ्यासवशात् बाह्यव्यापारवृत्तिमात्रशून्ये चित्त . तादात्म्यभावनाविशेषात् सगुणब्रह्मसाक्षात्कारस्सिध्यति । ततोऽपि निरन्तराभ्यासविशेषात् बाह्याभ्यन्तरवृत्तिशून्यं चित्तं नश्यति । तदा निर्विकल्पं निराकारं निर्गुणं निरवयवं नित्यज्ञानानन्दात्मकमात्मानं जानाति । तदिदं नित्यज्ञानानन्दात्मकमात्मज्ञानमेव अद्वैतं कैवल्यं ब्रह्मभूयसिद्धिमुक्तिरिति च , श्रुत्यादिनिखिलवेदान्तशास्त्रैरुपदिश्यते ॥ भुत्यादिविहितकर्मानुष्ठानपरा गणेशादिमन्त्रजपपूजादिबाधकर्मावलंबनमात्रपरा अपि वैदिकोपासका एव । एतेष्वपि केषांचित् देवतानुग्रहविशेषात् ब्रह्मज्ञानसिद्धिरपि भवत्येवेति महान्तो मन्यन्ते । प्रमाणानि चात्रोपलभ्यन्त एव । कार्यब्रह्मोपासकानामेतेषां कार्यब्रह्मलोकावाप्तिरेव फलं प्रतिपाद्यते ॥ अतो वैदिकोपासनामार्ग एव निश्रेयससाधनमिति पर्यवसन्नोऽर्थः ॥ तान्त्रिकोपासनामार्गभेदात्रयः- तान्त्रिको वामः पाषण्डवेति । For Private and Personal Use Only
SR No.020245
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 20
Original Sutra AuthorN/A
AuthorK S Subhramanya Shastry
PublisherT M S S M Library Tanjore
Publication Year1952
Total Pages947
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy