SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विशेषाः नवग्रहाः वसवो रुद्रा आदित्या अश्विनाविति त्रयस्त्रिंशदेवतास्तदाधिनाथा देवयोनिविशेषा मरुतः आजानजाः कर्मदेवाः देवर्षयो ब्रह्मर्षयः स्वतपोबलान्महर्षित्वमधिगताश्च लोकदेवताः तेषां मन्त्रा लोकदेवतामन्त्रा इति वैश्वदेवमेव लोकदेवताराधनमिति च बोध्यते ॥ तदेवं सप्तधा विभज्याभिहितानां सर्वासामपि देवतानां उपासनमाराधनं च यथोचितं यथाशक्ति यथामति च अवश्यमनुष्ठेयमिति श्रुतिस्मृतीतिहासपुराणादिभ्योऽवगम्यते ॥ - अथैतेषां मन्त्राणामुपासनामार्गभेदाश्च निरूप्यन्ते । उपासनामार्गस्संक्षेपाद्विविधः - वैदिकस्तान्त्रिकश्चेति । वैदिकोऽपि द्विविधः - कर्मज्ञानोभयात्मकः कर्मात्मकश्चेति । तान्त्रिकस्तु त्रिविधः - तान्त्रिकः, वामः, पाषण्डश्वेति । अतः वेदादितमार्गावलंबिनो वैदिकाः, तन्त्रग्रन्थोक्तमार्गाव लंबिनस्तान्त्रिका इति व्यवस्थितमेतत् ॥ । श्रुत्यादिविहितकर्मानुष्ठानपूर्वकं श्रीमच्छंकरभगवत्पादाद्यैः प्रतिष्ठापितेषु षट्सु मतेष्वन्यतमं स्वाभीप्सितं मतं मुख्यमवलम्ब्य तत्तदेवतो - पासना कल्पसूत्रकारैर्महर्षिभिर्नियुक्तेन मार्गेण सद्गुरोरनुग्रहोपलब्धैः मतदेवतात्मदेवतेष्टदेवतादिमन्त्रैः जपहोमपूजनाद्यैः कर्मभिः तास्ता देवताः प्रत्यहं तर्पयन्तः श्रुतिस्मृतीतिहासपुराणागमाद्यैर्देवतास्वरूप तत्वविचारपरा : परब्रह्मावबोधकप्रस्थानत्रयोपनिषदर्थविचारपराः परं ब्रह्म स्वाभिन्नं ध्यायन्तः मनननिदिध्यासनादिपराव वैदिकोपासका इति व्यवह्रियन्ते । अतः कर्मज्ञानात्मकद्विविधोपासनपरमा एते वैदिकोपासकाः खसत्कर्मनिर्धूतनिखिलकिल्बिषाः स्वोपास्यदेवतानुग्रहविशेषासादिततच्चावबोधाः योग लभ्यनिखिलसमाधिसिद्धिमन्तः ब्रह्मविदो ब्रह्मनिष्ठाः For Private and Personal Use Only
SR No.020245
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 20
Original Sutra AuthorN/A
AuthorK S Subhramanya Shastry
PublisherT M S S M Library Tanjore
Publication Year1952
Total Pages947
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy