SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ६ Acharya Shri Kailassagarsuri Gyanmandir तथाच योगसारे " इष्टदेवास्त्रिधा प्रोक्ताः गुरुरक्षार्थसाधकाः । परलोकज्ञानदाता गुरुदेव इति श्रुतः ॥ सर्वदा स्वात्मरक्षां च विपद्भयश्च करोति यः । रक्षादेव इति ख्यातः पाण्डवानां यथा हरिः ॥ अर्थदाता शत्रु शिक्षाकरश्चार्थप्रदायकः ॥ " इति ॥ उपासनेन परितुष्टा एता देवताः स्वोपासकस्य संभाव्यमानान् सर्वान् केशान् व्यपोह्य स्वयमेव गुरवो भूत्वा तत्त्वावबोधनेनैनं मुक्तिपथं प्रापयन्तीति आचार्या मन्यन्ते || स्वकुलसंभाव्यमानसकलानिष्टनिवृत्त्यर्थं योगक्षेमादिनिखिलश्रेयोभिवृध्यर्थं च स्वकुलवृद्धैः परंपराक्रमेणाराध्यमाना देवताः कुलदेवता इति सर्वजन विदितोऽयं विषयः । तेषां प्रसादजनका मन्त्राः कुलदेवतामन्त्राः | एतासां कुलदेवतानां अनुग्रहेणापि केचिदध्यात्मतत्वज्ञा अभूवन्निति विज्ञायते ॥ सकलदुरितनिवृत्त्यर्थं सर्वमङ्गळावाप्त्यर्थं च गृहेष्ववश्य पूजनीयत्वेनाभिहिता बृन्दाद्या देवताः गृहदेवतास्तासां मन्त्रा गृहदेवता मन्त्राः ॥ ग्रामसंभाव्यमानमारीचोराग्निदाहादिबाधाभ्यः ग्रामीणजनद्विपाचतुष्पद्रक्षिकाः हरिहरपुत्र चण्डीकाळी दुर्गाद्या देवता ग्रामदेवताः । तासां मन्त्रा ग्रामदेवतामन्त्राः । ब्रह्मा प्रजापतयः इन्द्रादयो लोकपालाः तदधिनाथा देवयोनि For Private and Personal Use Only
SR No.020245
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 20
Original Sutra AuthorN/A
AuthorK S Subhramanya Shastry
PublisherT M S S M Library Tanjore
Publication Year1952
Total Pages947
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy