SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तथा हि योगसारे "अद्वैतस्योपनिषदि गाणेशाद्वैतमीरितम् । ब्रह्मसन्ध्योपनिषदि सौराद्वैतं प्रकीर्तितम् ॥ भुवनेश्या उपनिषदि शाक्ताद्वैतं समीरितम् । नीलकण्ठोपनिषदि शाम्भवाद्वैतमीरितम् ॥ पार्थसारथ्युपनिषदि वैष्णवाद्वैतमीरितम् ॥” इति ॥ प्रायश एतासामुपनिषदामलाभान्नात्र उदाहृता इत्यवधेयम् ।। अतो गणेशादीनां पञ्चानामपि देवतानां परब्रह्माभिन्नत्वं गणेशादिमन्त्राणां परब्रह्मस्वरूपतत्त्वबोधकत्वं च सिद्धम् ॥ अर्थतासां पञ्चानां देवतानां पूर्णावतारमूर्तयो वल्लभेशसूर्यनारायणान्नपूर्णानीलकण्ठवासुदेवाद्याः कार्यब्रह्मात्मिका इति तत्स्वरूपतत्त्वबोधका मन्त्रा आत्मदेवतामन्त्रा इति च व्यपदिश्यन्ते । कार्यकारणयोरभेदान्वयस्य सुगमत्वमिव ब्रह्मात्मनोरभेदान्ययस्य सुगमत्वं बोधयितुं एता देवता आत्मदेवता इति अभिधीयन्ते । स्वाभीप्सितहिकामुष्मिकसकलेष्टलाभसिद्धयर्थ उपास्यमाना देवता इष्टदेवता इति तत्प्रतिपादका मन्त्रा इष्टदेवतामन्त्रा इति च प्रपश्चितम् । प्रायेणेता देवता मताधिदेवतानामवतारदेवतासु आवरणदेवतासु वा अन्तर्गताः गुरुरक्षाकरार्थसाधकभेदात् त्रिविधाः, उक्त कार्यत्रयसाधिका वा भवन्तीति ॥ For Private and Personal Use Only
SR No.020245
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 20
Original Sutra AuthorN/A
AuthorK S Subhramanya Shastry
PublisherT M S S M Library Tanjore
Publication Year1952
Total Pages947
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy