SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir योगसारे यथा -- " एवं वै गणनाथश्च पुरुषश्च परश्शिवः । शक्तिर्नारायणश्चैव ज्योतीरूपसमन्विताः ॥ ब्रह्मत्वेनैव प्रोच्यन्ते वेदादिष्वपि पसु च । पञ्चभ्यश्चैव प्रोच्यन्ते सृष्टिस्तु कालभेदतः । एकमेव परं ब्रह्म पञ्चधा परिकीर्तितम् ॥” इति ।। श्रीमदप्पय्यदीक्षितेन्द्रैरपि शैवाद्वैतबोधकश्रीकण्ठभाष्यव्याख्याने अयमेव भाव आविष्कृतः ॥ यथा -- “ यद्यप्यद्वैत एव श्रुतिशिखरगिरामागमानाञ्च निष्ठा साकं सर्वैः पुराणश्रुतिनिकरमहाभारतादिप्रबन्धैः । तत्रैव ब्रह्मसूत्राण्यपि च विमृशतां भान्ति विश्रान्तिमन्ति प्रनैराचार्यरतैरपि परिजगृहे शङ्कराद्यैस्तदेव ॥ तथाप्यनुग्रहादेव तरुणेन्दुशिखामणः । अद्वैतवासना पुंसामाविर्भवति नान्यथा ॥ अनुग्रहश्च देवस्य देव्या चिद्रूपया सह । यथावत्तं परिज्ञाय ध्यायद्भिस्समवाप्यते ॥” इति ।। अत्र दीक्षितेन्द्रः ब्रह्मज्ञानावाप्यै न केवलं परमेश्वरानुग्रहमानं विवक्षितम् , अपि तु पराशक्त्यनुग्रहोऽपि विवक्षित एव ॥ For Private and Personal Use Only
SR No.020245
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 20
Original Sutra AuthorN/A
AuthorK S Subhramanya Shastry
PublisherT M S S M Library Tanjore
Publication Year1952
Total Pages947
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy