SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणेशसूर्यशक्तिशिवविष्ण्वाख्यानां पञ्चब्रह्मणां अन्यतमं दैवतं निर्गुणं ब्रह्मेति, अन्यानि दैवतानि तत्कार्य ब्रह्मेति च भावयन्त उपासनपराः क्रमेण गाणेशास्सौराश्शाक्तारशैवा वैष्णवा इति ; पञ्चस्खेतले दैवतेषु समबुद्धयस्स्मार्ता इति च व्यवाहियन्ते । अतः, अद्वैतवोधकान्येतान्येव षण्मतानि गणकमुगलच्यासशङ्कराख्यैर्युगाचार्यैः स्थापितानीति योगसारादिभिग्रन्थैरधिगम्यते । अपि च तेषां गणेशादीनामाप परब्रह्माभिन्नस्वरूपतत्त्वबोधकाः उपनिषत्प्रतिपादिता गणेशैकाक्षरसूयकाक्षरदेव्येकाक्षराशिवपञ्चाक्षरनारायणाष्टाक्षरात्मकाः पञ्च मन्त्रा एवति उपासनाकल्पसूत्रप्रस्थानत्रयकर्तारो मन्यन्ते । गणेशषडक्षर सूर्याष्टाक्षर देवीपञ्चदशी परमेश्वरद्वादशाक्षरी विष्णु द्वादशाक्षरीमन्त्रा अपि ब्रह्मायबोधका एवेति पाक्षिकः कल्पः । प्रणवमन्त्रस्य तु ब्रह्मावबोधकत्वं उपनिषदुष्टं सुप्रसिद्धमेव । अथापि केवलप्रणवजपे तुर्याश्रमिणामेवाधिकारदर्शनात्सर्वेऽप्येते मन्त्रास्सप्रणवा एव त्रैवर्णिकानामुपदिश्यन्ते आचार्यैरिति हृदयम् । अतस्सप्रणवा एते पञ्च मन्त्रा वा दश मन्त्रा वा मतमन्त्रा इति व्यवस्थितम् ॥ तथा च ज्ञानसारे "मतानामपि पश्चानां तात्पर्य निर्गुणं परम् । ब्रह्मबुध्द्यैव पूज्यन्ते धुपास्यन्ते च पञ्च ते ॥ मन्त्राणां जपहोमाद्यैः स्तूयमाना हि देवता । प्रसन्ना निखिलान्भोगान् पुरुषार्थांश्च यच्छति ॥” इति । For Private and Personal Use Only
SR No.020245
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 20
Original Sutra AuthorN/A
AuthorK S Subhramanya Shastry
PublisherT M S S M Library Tanjore
Publication Year1952
Total Pages947
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy