SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ॥ श्रीगणेशाय नमः ॥ भूमिका || (मन्त्रशास्त्रहृदयावेदनम् ) <> Acharya Shri Kailassagarsuri Gyanmandir इह खलु जगति, मायोपनिबन्धनेऽस्मिन्संसारे तुषाङ्गारेष्विव परितप्यमानान् जनाननुजिघृक्षुर्भगवान् परमेश्वरः मन्त्रकलापान् प्रकाशयामास । ते हि मन्त्राः श्रुतिस्मृतीतिहासपुराणागमतन्त्रादिषु परश्शतमुपलभ्यन्ते । गते च काले श्रुत्यादीनां तेषां प्रायशस्सखाते दौर्लभ्ये लोकानुग्रहैकपरायणाः श्रीमद्भगवत्पादादयो महान्तः तेभ्यो मुख्यतमान् मन्त्रान् संगृह्य प्रपञ्चसारादिग्रन्थरूपेण प्रकाशयामासुरिति नेदमविदितमावेद्यते वित्तमानाम् । तेषां सर्वेषां ग्रन्थानामलाभेऽपि तञ्जपुरी ललामभूते ; अथवा भारतदेशललामभूते चोळदेशाधीश्वरैर्महाराजैः स्वस्वकाले महता प्रयासेन संपाद्य संरक्षिते श्रीसरस्वती महालयाख्येऽस्मिन् महति भाण्डागारे प्रायेण सर्वेऽपि ते मन्त्रकलापा उपलभ्यन्त एवेति परमिदं प्रमोदस्थानं विपश्चिदपश्चिमानाम् । अतस्ते मन्त्रा यथामत्यत्र विमृश्यन्ते ॥ मन्त्रा द्यनन्ता भवन्तीत्यतो मन्त्रप्रतिपाद्यमाना देवता अप्यनन्ता एव । ताः किल देवताः मतदेवताः आत्मदेवताः इष्टदेवताः कुलदेवताः गृहदेवताः ग्रामदेवताः लोकदेवताश्चेति विभज्य अभिधीयन्ते । अतो देवताभेदेन मन्त्रा अपि सप्तविधा भवन्ति । For Private and Personal Use Only
SR No.020245
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 20
Original Sutra AuthorN/A
AuthorK S Subhramanya Shastry
PublisherT M S S M Library Tanjore
Publication Year1952
Total Pages947
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy