SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धनदण्ड-संख्या। तथा,पणोदमानगण्डानां तुऱ्यांशेऽपि च काकिनी । इति रभसपालः। पणगण्डकयोस्तुर्य उदमाने च काकिनौ । इति रुद्रः। बृहस्पतिः, ताम्रकर्षकता मुद्रा विज्ञेयः कार्षिकः पणः । स एव चान्द्रिकाः प्रोक्तास्ताश्चतस्वस्तु धानिकाः ॥ ता द्वादश सुवर्णस्तु दौनाराख्यः स एव तु । विष्णुगुप्तः, सुवर्णसप्ततितमो भागो रोपक उच्यते । दौनारी रोपकैरष्टाविंशत्या परिकीर्तितः ॥ चतुर्वर्गचिन्तामणौ कात्यायनः,माषो विंशतिभागस्तु ज्ञेयः कार्षापणस्य तु । काकिनौ तु चतुर्भागो माषस्य च पणस्य च ॥ नारदः, माषो विंशतिभागस्तु पणस्य परिकीर्तितः । पणस्तु षोड़शो भागो जेयः कार्षापणस्य तु ॥ काकिनौ तु चतुर्भागो माषस्य च पणस्य च ॥ पञ्चनद्याः प्रदेशेषु संज्ञेयं व्यवहारिको । कार्षापणप्रमाणन्तु तन्निबदमिहैव तु ॥ १ क पुस्तके - गञ्जानां । २ क पुस्तके चतुकाः । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy