SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दण्ड विवेकः। - रजतप्रकरणम्नानाविशेषात्। अतएवोक्तं प्रमाणत इति। रजताधिकारे विष्णुगुप्तः, अष्टाशौतिगौरसर्षपा रूप्यमाषकस्ते षोड़श धरणं निष्को वा विंशतिर्वा रूप्यपलं तद्दश धरणकम् । स्मृतिः, पञ्चसौवर्णिको निष्क इति। तथा, साष्टं शतं सुवर्णानां निष्कमाहुर्मनीषिणः । अभिधानकोषे तु, निष्कमस्त्री साष्टहेमशते दोनारकर्षयोः । रक्षोऽलङ्करणे हेमपलेऽपि चेत्युक्तम् । मनुः कार्षापणस्तु विज्ञेयस्ताम्रिकः कार्षिकः पणः । कार्षापणः पण इति हे संज्ञे ताम्रकर्षस्येत्यर्थः, इति रत्नाकरः। अभिधानकोषे तु, कार्षापणः कार्षिकः स्यात् कार्षिके ताम्रिके पणः । इत्युक्तम् । तन्मते सर्व एव कार्षिको मुद्राविशेषः कार्षापणः समाख्यासम्बादात्। स एव ताम्रिकः पण इत्यच्यते, इति गम्यते। १ ग पुस्तके यथा । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy