SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धनदण्ड-संख्या। बालभूषणे चण्डेश्वरः, कर्षः पलपादः स्यात् कांच तोलकः सोऽपि । उक्तो वसुभिर्मा के माषोऽपि गुञ्जाकैर्दशभिः ॥ पलमत्र वैद्यकप्रसिद्धमष्टतोलकमिति । याज्ञवल्क्यः, पलं सुवर्णाश्चत्वारः पञ्च वा परिकीर्तितम् । मनुः,हे कृष्णले समते विज्ञेयो रूप्यमाषकः । ते षोड़श स्यावरणं पुराणश्चैव राजतम् ॥ धरणानि दश ज्ञेयः शतमानस्तु राजतः । चतुःसुवर्णिको निष्को विज्ञेयस्तु प्रमाणतः ॥ ते षोड़शमाषका राजतं धरणं राजतश्च पुराण इत्यर्थः। याज्ञवल्क्यः , दे कृष्णले रूप्यमाषो धरणं षोड़शैव ते। शतमानन्तु दशभिर्धरणैः पलमेव च ॥ निष्कं सुवर्णाश्चत्वारः .......। दशभिर्धरणैः शतमानं तदेव पलमित्युच्यते। निष्कमिते रजतप्रकरणे 'स्वर्णशब्दोपादानं हेमप्रकरणोक्तमानप्राप्त्यर्थं तेन हेमप्रमाणभूतचतुःसुवर्णमानोन्मितं रजतं निष्कमिति महार्णवाभिधाने निबन्धे व्याख्यातम् । एवञ्च चतुःसुवर्णिको निष्क इति मनुवचनमप्येवमेवोन्नेयम् । १ ग सुवर्ण -- । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy