SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २७ दविवेकः । गुरुत्वमनियतमतो यथोक्तमेव कृष्णलं ग्राह्यम् । क्वचि - देकेतिपाठः । सेयं कृष्णलसंज्ञा सुवर्णरजतसाधारणौ । अगस्तिप्रोक्ते – Acharya Shri Kailassagarsuri Gyanmandir अष्टभिर्भवति व्यक्तैस्तण्डुला गौरसर्षपैः । स वैणवो यवः प्रोक्तो गोधूमं चापरे जगुः ॥ मनुः, पश्चकृष्णलको माषस्ते सुवर्णस्तु षोडश । पलं सुवर्णाश्चत्वारः पलानि धरणं दश ॥ दशपलानि धरमित्यन्वयः । चतुर्थाध्याये माषाधिकारे विष्णुः, - तद्द्वादशकमक्षकमेव सचतुर्माषकं सुवर्णः । सचतुर्माषकं माषचतुष्टयसहितं षोड़शमाषात्मक मित्यर्थः । अभिधानकोषे तु,— गुञ्जाः पञ्चाद्यमाषकः । ते षोड़शाक्षः कर्षोऽस्त्रौ पलं कर्षचतुष्टयम् ॥ इत्युक्तम् । अन्ये त्वाहुः— स्वष्टक्षेत्रे यथावन्मध्यपाककाले निष्यन्ना धान्यमाषा दश सुवर्णमाषः, पञ्च वा गुञ्जाः सुवर्णमाषाश्च षोडश सुवर्णः, स एव कर्षः चतुःकर्षः' पलं पलानां शतेन तुला, विंशत्या तुलाभिर्भारः । १ ख ७ पुस्तकये तच्चतुष्कं पलं । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy