SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दण्डविवेकः । व्यवहारावृपः पश्येदिद्भिाह्मणैः सह । इत्यत्र मिताक्षराकारः,ब्राह्मणैरिति तृतीयादर्शनात्तेषामग्राधान्यं “सह युक्तप्रधाने” इति स्मरणात्। अतश्चादर्शनेऽन्यथादर्शने च राज्ञ एव दोषो न ब्राह्मणानामित्याह । अथ कात्यायनः,- यदा कार्यवशाद्राजा न पश्येत् कार्यनिर्णयम् । तदा तत्र नियुञ्जौत ब्राह्मणं शास्त्रपारगम् ॥ तदभावे त्वाह,यत्र विप्रो न विहान स्यात् क्षत्रियं तत्र योजयेत् । वैश्यं वा धर्मशास्त्रज्ञं न तु शूद्रं कदाचन ॥ मनुः, यस्य राष्ट्रे प्रकुरुते शूद्रो धर्मविवेचनम् । तस्य सौदति तद्राष्ट्र पङ्के गौरिव पश्यतः ॥ व्यासः,दिजान् विहाय यः पश्येत् कार्याणि उपलैः सह । तस्य प्रक्षुभ्यते राष्ट्र बलं कोषश्च नश्यति ॥ मनुः, समाः शचौ च मित्रे च नृपतेः स्यः सभासदः। बृहस्पतिः, सभ्याधौनः सत्यवादी कर्त्तव्यस्तत् स्वपूरुषः । ' Y ' ' १ ख चार पुरुषः । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy