SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org दण्डप्रायनोपकरणानि । प्रत्यर्थि- सभ्यानयनं स्वाक्षिण्णाच्च स्वपूरुषः । कुर्यादलग्नकं रक्षेदधि- प्रत्यर्थिनौ तथा ॥ **** Acharya Shri Kailassagarsuri Gyanmandir अथ कात्यायनः, एकाहह्यहाद्यपेक्षं देशकालाद्यपेक्षया । दूताय साधिते का तेन भक्तं प्रदापयेत् ॥ दूताय वादिनमानीतवते तेन वादिना । याज्ञवल्क्यः, उभयोः प्रतिभूग्रह्यः समर्थः कार्य्यनिर्णये । कार्य्यनिर्णय इति आहिताग्न्यादिपाठात् कार्य्यस्य पूर्वनिपातः, तेन निर्णयकार्य इत्यर्थः । तच्च साधितधनदानं दण्डदानञ्च तस्मिन् प्रतिभूरिति प्रतिभवति तत्कार्य्ये तच्च भवतौति प्रतिभूः प्रतिनिधिः । कात्यायनः, - अथ चेत् प्रतिभूर्नास्ति कार्य्ययोगस्य वादिनः । स रक्षितो दिनस्यान्ते दद्याद्दृताय वेतनम् ॥ अथ मनुः,— व्यवहारान् दिदृक्षुस्तु ब्राह्मणैः सह पार्थिवः । प्रणम्य लोकपालेभ्यः कार्यदर्शनमारभेत् ॥ पार्थिवः पृथिवीपतिः क्षचियादन्योऽपि । महाभारते, - अर्थिनामुपसन्नानां यस्तु नोपैति दर्शनम् । सुखे प्रसक्तो नृपतिः स तप्येत नृगो यथा ॥ उपसन्नानां निर्णयार्थमुपगतानाम् । - १ घ — भुक्तम् । १३ For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy