________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सम्यग्दण्डगुणाः ।
एतच्चाशक्यधारणे पलायितदर्लभ चौरादौ द्रष्टव्यम् । मन्वादिवचनानां गत्यन्तराभावविषयकत्वात् । तथाहि मनुः,
शस्त्रं द्विजातिभिर्ग्राह्य धर्मो यचाऽवरुध्यते । दिजातीनाञ्च वर्णनां विप्लवे कालकारिते ॥ आत्मनश्च परिवाणे दक्षिणानाञ्च सङ्गरे। स्त्रीविप्राभ्युपपत्तौ च नन् धर्मेण न दृष्यति ॥ अत्र मनुटौकायां ब्राह्मणदिभिर्वर्णैः खड्गाद्यायुधं ग्रहौतव्यं यदा साहसिकादिभिर्वर्णाश्रमिणां धर्मः कर्त्त न दौयते। तथा अराजके राष्ट्रे परचक्रागमादिकालजनिते विलवे स्त्रीसङ्करादौ प्राप्ते तथा आततायिभ्य आत्मरक्षार्थं तथा दक्षिणाभागापहारसंग्रामे स्त्रीब्राह्मणरक्षार्थञ्च धर्मज्ञत्वेनानन्यगतिकतया परान हिंसन् दोषभागौ न भवति । अतोऽत्र परमारणेऽपि साहसदण्डो न कार्य्य इति कुल्लू कभट्टेन व्याख्यातम् । यदपि,गुरुं वा बाल-वृद्ध वा ब्राह्मणं वा बहुश्रुतम् । आततायिनमायान्तं हन्यादेवाविचारयन् ॥ नाततायिबधे दोषो हन्तुर्भवति कश्चन।
इति मनुवचनम् । तस्यायमर्थों गुर्बादौनामन्यतमं बधोद्यतं पलायनादिनात्मनिस्ताराशक्तौ निर्विचारं हन्यादिति ।
नहि वचनस्य दृष्टार्थत्वे सम्भवत्यदृष्टार्थत्वं युक्तम् ।
For Private And Personal Use Only