SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दण्डविवेकः। अथ सम्यग्दण्डगुणाः। तब मनुः, तं राजा प्रणयन् सम्यक् त्रिवर्गेणाभिवईते। तथा, समौक्ष्य स धृतः सम्यक् सर्वा रञ्जयति प्रजाः। याज्ञवल्क्यः, सम्यग् दण्डयनं राज्ञः स्वर्गकौर्त्तिजयावहम् । यो दण्ड्यं दण्डयेद्राजा सम्यक् वध्यांश्च घातयेत् ॥ इष्टं स्यात् क्रतुभिस्तेन सहस्रशतदक्षिणैः ॥ इह राजेति हननाधिकारी श्रुत एव। यत्र विशेषवचनं नास्ति तत्रापि बधार्थमुपदेशो राज्ञ एव राजसत्तेरेव वा तस्यैव प्रजापालनवृत्तत्वात् । न दिजातिमात्रस्य । ब्राह्मणः परीक्षार्थमपि न शस्त्रमुपाददौतेति बौधायनेन,-. आयुधग्रहण-नृत्यगौतवादिचाणोति राजाधीनेभ्योऽन्यत्र न विद्येरन् । इत्यापस्तम्बेन च तस्य शस्त्रग्रहणनिषेधस्वरसात्। अत्र मिताक्षराकारः, यदा राज्ञो निवेदने कालविलम्बेन कार्यातिपातः शक्यते तदा स्वयमेव चौरादौन हन्यात्, तत्र मनुना शस्त्रं द्विजातिभिर्ग्राह्यमित्यादिनाभ्यनुज्ञानादित्याह। १ ग घ पुस्तकहये प्रवत्तत्वात् । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy