SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दण्डविवेकः। __ अस्ति च सर्वत्रात्मानं गोपायौतेत्यात्मरक्षणस्य विहितत्वात् तदेव दृष्टं प्रयोजनं तच्चेदन्यथाऽपि सम्भवति तदा तचापि बधोऽदृष्टार्थः स्यादित्येव । नारायणेन तु मनुवचनमन्यथा व्याख्यातम् । आततायिनं हननप्रवृत्तं हन्यादेव अङ्गछेदादिरूपेण नत्वत्यन्तम् । अन्यत्र गोब्राह्मणादिति गौतमस्मृतेः। हन्तुबंधक न कश्चन, ब्रह्महत्यादिकृतमपि तादृशं पापं न भवति । तथाहि प्रायश्चित्तमपि तत्राऽल्यमेव स्मृतिनिबन्धकारैर्निबधमिति। मिताक्षराकारस्याप्यचैव स्वरसः। मेधातिथि-गोविन्दराजौ तु, आचार्यश्च प्रवक्तारं मातरं पितरं गुरुम् । न हन्याब्राह्मणान् गाश्च सवींश्चैव तपस्विनः॥ इत्याहतुः। अविशेषेण सर्वभूतानां हिंसा निषिद्धा पुनर्वचनमाचार्य्यादौनां मातापित्रादीनामतिनिषेधार्थम् । यच्च गुरुं वा इत्यादिकमनुवादः, गुर्वादिकमपि हन्यात् किमुतान्यमिति सोऽस्यैव प्रतिप्रसवः । अथवा,'दरुक्तभाषणमेवाच हिंसा । वाग्भिस्तैस्तैर्जघन्यताम् । इतिवचनात्। अथवा प्रतिकूलाचरणे हन्तिप्रयोगो यथा चात्र प्रतिभाति तथा दैतविवेके वक्ष्यामः॥ १ घ - दिक्तभाषणम् । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy