SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३. दण्डविवेकः। बृहस्पतिः,___अन्यायवादिनः सभ्या निस्यिाः सर्व एव ते। एतहादिनोऽतिपौडाकरमहापातकादिविवादविषयं, वृत्तिच्छेदादिविषयं वा। शौलार्थणिनि प्रयोगात्ताच्छोल्यप्रतौतेरभ्यासविषयं वेति न विरोधः । __ इह यत्र सुवर्णादिषु क्षिप्तेषु प्रत्यर्थों सर्वमपहुते। अर्थों च तदेकदेशं विभावयति तत्र यदेकदेशेऽर्थिनः सत्यवादित्वात् प्रदेशान्तरेऽपि मूलमिदं सत्यमिदमसत्यमित्यादिना तर्केण निर्णयः, तदा 'वस्तुतस्तुल्यार्थस्यान्यथावेपि व्यवहारदर्शिनां न दोषः। तथाहि न्यायाधिगमे तर्कोऽप्युपायस्तेनाभ्युह्य यथास्थानं गमयेदित्युक्त्वागोतमेनोक्तम्, तस्माद्राजाचार्यावनिन्द्याविति । अथ सन्दिग्धानाञ्च भाषणमिति यदुद्दिष्टम्। तब नारदः,कार्यस्य निर्णयं सम्यक् कृत्वा सत्यन्ततो वदेत् । अन्यथा नैव वक्तव्यं वक्ता दिगुणदण्डभाक् ॥ वक्ता अन्यथावक्ता। अत्रापि द्वैगुण्यं विवादविषयापेक्षया, पराजयनिमित्तकदमापेक्षया वा। तथा,- . सभ्यदोषात्तु यन्त्रष्टं देयं सभ्येन तत्तथा । कार्य्यन्तु कार्य्यिणामेवं निश्चितं न विचालयेत् ॥ १ घ पुस्तके-तदा वस्तुतस्तस्यान्वयस्य । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy