SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सभ्य-दण्डः। ३३६ नष्टं हारितं जयिने दत्तं देयं होनाय वादिन इति शेषः। सोऽयं न विचालयेदिति कल्पतरु-पारिजातादिलिखितपाठानुगतोऽर्थः। व्यवहारदीपिकायान्तु कामधेन्वादौ दृष्ट्वा प्रविचारयेदिति पठितं व्याख्यातञ्च–अन्यथादर्शिना सभ्येन विचार्य निर्णौतमपि पुनः सम्यक् विचारयेदिति। एवञ्चैतन्मतेऽन्यथादर्शननिमित्तोऽयं सभ्यदण्डः । युक्तञ्चैतत् दुईष्टस्य पुनदर्शनविधानात्। पूर्वसभ्यप्राविवाकयोर्दण्डविधानाच्च । कृत्यसागरे तु न विचालयेदित्येव पठितम् । वाद्यनुक्तमपि निश्चितं न विचालयेदिति तु व्याख्यातम् । अथ कात्यायनः,प्राविवाकसदस्यानामुपजीव्यमतानि तु। तद्युक्तियोगाद्योऽर्थेषु निर्णयेत्तु स दण्डभाक् ॥ यः स्वयमज्ञः प्राड्दिवाकाद्युक्तयुक्त्या निर्णयति सोऽपि दण्ड्य इत्यर्थः। एतदनधिकृतशूद्राद्यभिप्रायं कचिन्न स दण्डभागिति पाठः स च धर्माज्ञ-शास्त्रज्ञ-ब्राह्मणाभिप्रायक इति फलतो न विशेषः। तदाह बृहस्पतिः,नियुक्तो वाऽनियुक्तो वा धर्मज्ञो वक्तुमर्हति । १ अथ कात्यायन इत्यारभ्य अकूटसाक्षिदूषणदण्डनिर्णयं यावत् ग्रन्थांशः घ ७ पुस्तके प्रमादपतितः। For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy