SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सभ्य दण्डः । Acharya Shri Kailassagarsuri Gyanmandir वस्तुतस्तु प्रथमं स्तेयपदं सुवर्णस्तेयपरं महापातकसाहचर्य्यात् । द्वितौयन्तु तदितरपरम् । ब्रह्महत्या - मनुष्यमारणवत् गुर्व्वङ्गनागमन-परदाराभिमर्षणवच्चेति द्रष्टव्यम् । कर्त्ता अभियुक्तः । ३३७ अथ सभ्य - दण्ड: । तत्रोत्कोचमादायान्यथा निर्णयतस्तस्य दण्डः प्रकाशतस्करप्रकरणे दर्शितः । उत्कोचग्रहणादिसम्भावनायामाह कात्यायनः, - अनिर्णीते तु यद्यर्थे सम्भाषेत रहोऽर्थिना । 'प्राड्विवाकोऽपि दण्ड्यः स्यात् सभ्यश्चैव न संशयः ॥ अन्यत्र त्वाह,— स्नेहादज्ञानतो वापि लेोभाद्दा मोहतोऽपि वा । यत्र सभ्योऽन्यथावादौ दण्ड्यो ऽसभ्यः स्मृतो हि सः ॥ दण्डमाह नारदः रागाल्लोभाद्भयाद्दापि स्मृत्यपेतादिकारिणः । सभ्याः पृथक् पृथक् दण्ड्या विवादाद्दिगुणं धनम् ॥ आदिपदादाचारापेतादिग्रहणम् । अत्र विवादात् विवादपराजयनिमित्ताद्दण्डात् द्विगुणमित्यर्थो न तु विवादास्पदौभूतादिति स्त्रीसङ्ग्रहणादिषु दण्डाभावप्रसङ्गादिति मिताक्षराकारः । ९ घ ङ पुस्तकदये प्राड्विवाकोऽप्यदण्डाः स्यादिति । 43 For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy