SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २८० Acharya Shri Kailassagarsuri Gyanmandir दण्ड़विवेकः । सर्व्वत्र सपाले विपाले च मूल्यमिति दाप्य इति शेषः । चकाराद्राजदण्डसमुच्चयः । मनुः, - सपालः शतदण्डार्हो विपालान् वारयेत् पश्नन् । विपालान् पालकशून्यान् । कात्यायनः, - क्षेत्रारामविवीतेषु गृहेषु पशुपातिषु । ग्रहणं तत्प्रविष्टानां ताडनञ्च बृहस्पतिः ॥ पशुपातिषु विकौर्णयवसेषु स्थानेषु, ग्रहणं वन्धनम् । कामधेनौ चकारस्थाने वाकारः पठितः । कात्यायनः, - अधमोत्तममध्यानां पशूनाञ्चैव ताडने । स्वामी तु विवदेद यच तच दण्डं प्रकल्पयेत् ॥ इति शस्यघातकदण्डमातृका । तदेवं गोप्रचारादेरन्यच पशुभिर्भक्षणेनावमर्द्दनेन वा शस्ये नाशिते पशूनां पशुपालस्य च ताडनम् । पशुस्वामिनः शस्यस्वामिने तत्तन्मूल्ययो रेकतरदानं राजे च दण्डदानमपवादविनयादन्यच स्थितम् । तचापवादः क्वचिद्राजदैवदोषात् क्वचित् पशुविशेषादिति द्विविधस्तयोराद्यमाह । नारदः, - राजग्रहगृहीतो वा वज्राशनिहतोऽपि वा । अथ सर्पेण वा दष्टो वृक्षाद्वा पतितो भवेत् I For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy