SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रनहाधिगताधिकारः। २८१ व्याघ्रादिभिहतो वापि व्याधिभिर्वाऽप्यपद्तः । न तत्र दोषः पालस्य न च दोषोऽस्ति गोमिनाम् ॥ गोमौ गोस्वामी। द्वितीयमाह स एव, गौः प्रसूता दशाहन्तु महोक्षा वाजिकुञ्जराः। विनिवार्य्याः प्रयत्नेन स्वामी तेषां न दण्डभाक् ॥ महोक्षा बोजसेक्ता वृषभः। वाजिकुञ्जराः प्रजापालनोपयुक्ताः। अदम्या हस्तिनोऽश्वाश्च प्रजापाला हि ते स्मृताः । इत्युशनोदर्शनात् । मनुः,अनिर्दशाहां गां सूतां वृषान् देवपशूस्तथा। सपालान् वा विपालान् वा अदम्यान् मनुरब्रवीत् ॥ देवपशवो देवमुद्दिश्योत्सृष्टाः पशवः, उत्सृष्टहषाणामपि गवां गर्भार्थं गोपैर्धारणात्सपालत्वमिति कुल्लकभट्टः । शङ्खः, देवपशवम्छागतृषाः शस्यापराधे न दण्डमाप्नुयुः । वृषशब्देन बौजसेककृत्पित्रर्थोत्सृष्टवषयोग्रहणमिति रत्नाकरः। एवञ्च छागोऽपि तादृश एव समभिव्याहारात् । उशनाः, अदम्याः काणकुण्ठश्च दृषश्च कृतलक्षणः । अदण्ड्यागन्तुका या गौः सूतिका चाभिचारिणौ ॥ १ क सूतौं। २ अदगड्या निति क्वचित् पाठः । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy