SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.ddysge प्रनष्टाधिगताधिकारः । Acharya Shri Kailassagarsuri Gyanmandir अत एवाह याज्ञवल्क्यः, पथि ग्रामविवीतान्ते क्षेत्रे दोषो न विद्यते । अकामतः कामचारे चौरवद् दण्डमर्हति ॥ उशनाः, गोभिर्विनाशितं धान्यं यो नरः प्रतिलिप्सते' । पितरस्तस्य नाश्नन्ति नानन्ति च दिवौकसः ॥ धान्यमित्युपलक्षणम्। ग्राह्यमप्येतन्नरकहेतुत्वान्न ग्राह्यमित्यर्थः । एतदपि वचनं ग्रामसमौपस्थितानावृतधान्यादिविषयमिति पराशरभाष्यम् । उल्लङ्घितशास्त्रं प्रत्याह नारदः, - गोभिस्तु भक्षितं धान्यं यो नरः प्रतियाचते । सामन्तानुमतं देयं धान्यं यच तु भक्षितम् ॥ शस्यमित्युक्तेर्धान्यमित्ययमस्य प्रत्यनुवादः । २७६ तथा, - गवतं स्वामिना देयं धान्यं वै कर्षकाय च । एवं हि विनयः प्रोक्तो गवा शस्यावमर्द्दने ॥ गवत्तं गवा भक्षितम् । अत्र रत्नाकरादौ गवचमिति पाठो यवस इति तद्याख्यानश्च कामधेन्वादि लिखितपाठादर्शनमूलकत्वादनादेयम् । एवमिति भक्षणवदवमर्द्दनेऽपि तस्य दानमित्यर्थः । विष्णुः – सर्व्वच स्वामिने विनष्टशस्यमूल्यश्च । १ क्वचित् पाठः प्रतियाचते । र वापितमिति क्वचित् पाठः । १३ गोवद्धमिति मूले पाठः । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy