SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६६ दण्डविवेकः। प्रमाणेन लेख्येन मुद्रया स्वहस्तादिचिहेन । मनुः,कूटशसनकर्त्तश्च प्रकृतौनाञ्च दूषकान् । स्त्रीबालब्राह्मणघ्नांश्च हन्यात् हिट्से विनस्तथा ॥ शासनमिह राजादेशः, मिथ्या राजाज्ञालिखनमितिनारायणः। तत्र मारणोत्तमसाहसयोरतुल्यत्वात् पूर्वोत्तरयोरल्यानपराधविषयतया व्यवस्था, ब्राह्मणे तु वधनिषेधात्तत्प्रत्याम्नायत्वेन सुवर्णशतं दण्डः। महापातकिनो वधे प्राप्ते निर्वासनमिति प्रतिभाति । पुरप्रधानसम्भेदे नारदः,मिथः सङ्घातकरणमहेतौ शस्त्रधारणम् । परस्परोपघातच तेषां राजा न मर्षयेत् ॥ मिथः सङ्घातकरणं प्रकृतिसङ्घातप्रतिकूलावान्तरमेलककरणम् अहेतौ भयादिहेतुं विना परस्परोपघातमन्योन्यमनिष्टकरणं तेषां सङ्घातादिकतणां पुरपाषण्डादौनां न मर्षयेत् अपि तु यथाबलं तान् दण्डयेदिति तात्पर्यम् । एतेन महत्तमानामवान्तरसङ्घातकरणं व्याख्यातमेवमेव प्रकृतिष्वपि द्रष्टव्यम् । पाषण्डादिधर्मविपर्यायेण संविद्यतिक्रमो लक्ष्यते। तब नारदः,पाषण्डनैगमश्रेणीपूगवातगणादिषु । संरक्षेत् समयं राजा इन्द्रे जनपदे तथा ॥ १ क्वचित् पाठः परस्परापकारञ्च। २ दुर्गे इति मूले पाठः । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy