SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकीर्णदण्डः । २६५ यानं गजाश्वादि श्रसनं सिंहासनादि, अच राजाज्ञां विनेति शेषः । कात्यायनः, राजक्रौडासु ये सक्ता राजवृत्त्युपजीविनः । प्रियस्य तु यो वक्ता वधन्तेषां प्रकल्पयेत् ॥ राजक्रीडासु तदसाधारणौसु क्रौडासु चेष्टासु तदनुमतिं विना ये सक्ता ये च तेनाननुज्ञाताः प्रजापालनरूपां वृत्तिमवलम्वन्ते ये च राज्ञ एवाप्रियवादशौलास्ते वध्या इत्यर्थः । तथा, - प्रतिरूपस्य कर्त्तारः प्राप्नुयुर्व्विविधं वधम् । प्रतिरूपस्य राजवेशस्य । अत्रापि तदनुमतिं विनेति द्रष्टव्यम् । हन्यादित्यनुदृत्तौ विष्णुः, - ये चाकुलौना राज्यमभिकामयेयुः । कुलौना राज्ञो यत् कुलं तदप्रस्नुता इत्यर्थः । याज्ञवल्क्यः, ऊनं वाप्यधिकं वापि लिखतो राजशासनम् । पारदारिकचौराणां मुश्वतो दण्ड उत्तमः ॥ राजशासनमियद्देयमियग्राह्यमित्यादि राजादिष्टं यो लिखेत्तस्य दण्ड इत्यर्थान्वयः । ― कात्यायनः, प्रमाणेन तु कूटेन मुद्रया कूटयाऽपि वा । कार्य्यन्तु साधयेद्यो वै स दाप्यो दण्डमुत्तमम् ॥ For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy