SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रहरणदण्डः । पणानुत्तौ शङ्खलिखितौ, प्रहारोद्यमे घट्पञ्चाशत् निपातने तट्विगुणम् । प्रहियतेऽनेनेति प्रहारोऽश्मदण्डादिः, षट्पञ्चाशत् षडधिकपञ्चाशत्, इदमुत्तमवर्णेनाधमवर्णस्य दण्डपारुष्योद्यमे। अथ प्रहरणदण्डः । तत्र भस्मादिप्रक्षेपे वृहस्पतिः, भस्मादौनां प्रक्षेपणं ताडनञ्च करादिना । प्रथमं दण्डपारुष्यं दण्डः कर्षोऽत्र माषिकः ॥ एष दण्डः समे युक्तः परस्त्रौषधिकेषु च । द्विगुणस्त्रिगुणो ज्ञेयः प्राधान्यापेक्षया बुधैः ॥ ताडनमत्रोद्यमनमात्रमिति ग्रहेश्वरमिश्राः। एवमेव हरिनाथोपाध्यायाः। एवं व्याख्याने कामं प्रथममिति घटते दण्डगौरवन्तु दुर्घटम् । उगुरणात्तु हस्तस्य कार्यो हादशको दमः । स एव द्विगुणः प्रोक्तः पातनेषु सजातिषु ॥ इति कात्यायनविरोधात्। तस्मात् प्रहरणमेव ताडनपदार्थः प्रत्युत ताडनच्चेति चकारः समुच्चयार्थः। न्यूनश्च ताडयिता। प्रथममित्यस्य For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy