SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५० दण्डविवेकः। अथ प्रहरणोद्यमनदण्डः। अब वृहस्पतिः, उद्यतेऽश्मशिलाकाष्ठैः कर्त्तव्यः प्रथमो दमः । याज्ञवल्क्यः, उद्गुणे हस्तपादे तु दश-विंशतिको दमौ । परस्परस्य सर्वेषां शस्त्रे मध्यमसाहसम् ॥ सर्वेषां ब्राह्मणादीनां वर्णानां परस्परं वधार्थमितिशेषः। शस्त्रे उद्गणे इत्यनुषङ्गः। एतद्दचनद्वयं समानजातिं प्रति प्रहारोद्यमे । दण्ड इत्यनुवृत्तौ विष्णुः,“हस्तेनोहरयित्वा तु दश कार्षापणान, पादेन विंशतिं, काष्ठेन प्रथमसाहस, शस्त्रेणोत्तमम्" । उत्तममुत्तमसाहसमित्यर्थः । कृत्यसागर स्मृतिसागरयोरुत्तमसाहसमित्येव पठितम् । याज्ञवल्क्यः ,विप्रपौडाकरं छेद्यमङ्गमब्राह्मणस्य तु । उद्गणे प्रथमो दण्डः संस्पर्श तु तदईकः ॥ उद्गुणे शस्त्रादेरुद्यमने वधार्थमुल्लासन इति यावत् । संस्पर्श उद्यमनार्थं तस्यैव ग्रहणे । इदमुभयमधमेनोत्तमं प्रति हस्ताद्युद्यमने। अचोद्यमने शूद्रस्य हस्तादिछेदनमेव वक्ष्यमाणमनुदर्शनादिति मिताक्षराकारः। १घ पुस्तके तदईिकः । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy