SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बहूनामेकं प्रहरतां दण्डमाह। २४६ यत्र तु प्रहारयोः पूर्वापरभावपरिच्छेदो नास्ति यत्र वाऽपराधसाम्यं तत्र तु योरपि यथोक्तो दण्डः कात्यायनवचनस्वरसात्। आततायिवधे च दण्डाभाव एव वृहस्पतिवचनादिति। ___ इयच्च व्यवस्था वाक्पारष्येऽपि सञ्चारणीया न्यायसाम्यात्। वाग्दण्डपारुष्याधिकारे विधिः पञ्चविधस्वक्त एव-एतयोरुभयोरपौत्युपक्रम्य निरुक्तप्रकाराणां नारदेनोपन्यासात् वृहस्पतिवचनयोरुभयोर्विषयतायाः स्फुटत्वाच्च । अथ बहूनामेकं प्रहरतां दण्डमाह । याज्ञवल्क्यः, एकं नतां बहूनाञ्च यथोक्ताद्दिगुणो दमः । द्विगुणः प्रत्येकमिति शेषः। एकं बहूनां निघ्नतां प्रत्येकस्योक्तदण्डाद् द्विगुणः । इति विष्णुसंवादात् । अथ यत्र होनः पारुष्यकारी तवोत्तमस्य ताडनादिना तं दण्डयतोऽपि न दण्ड इत्यादिका वाचनिको व्यवस्था च हौनपरिगणनञ्च इयमपि वाक्पारुष्यप्रकरणे दर्शितमतस्तचैवानुसन्धेयम् । इति विविक्ता दण्डपारुष्यदण्डमाका । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy