SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दगडपारष्यदड़ा। २४३ 'न हिंस्यात् सव्वा भूतानि' इतिश्रुत्या न वाधः । उत्सर्गापवादन्यायेन सामञ्जस्यात् । एवमिहापि। 'आततायिनमायान्तं हन्यात्' इति स्मृतेर्न हन्याद् ब्राह्मणान् गांश्चेति स्मृतेर्वाधाभावाददोषो ब्राह्मणस्याततायिनो वध इति चेन्न आचार्यञ्चत्यादिमनुवचनानुपपत्तेः। अथ,—सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे । आचार्य शतसाहस्रं सोदर्ये दत्तमक्षयम् ॥ समद्विगुणसाहसमानन्त्यञ्च यथाक्रमम् । दाने फलविशेषः स्याड़िसायां तहदेव हि ॥ इति दक्षवचनसंवादात् पापातिशयपरं मनुवचनमिति चेत्, अस्तु तर्हि ब्राह्मणव्यतिरिक्तविषयमाततायिवधाभ्यनुज्ञावचनं तावतैव सर्वसामञ्जस्यं स्यात् । आततायिन्यपि ब्राह्मणे कामतो हते पूर्ण पापमाचार्यादौ तस्यातिशयः क्षत्रियादौ तदनुपपत्तिरिति । वस्तुतस्तु क्षचियादिवधेऽपि दण्डाभावमात्रं ध्रुवं 'प्राणात्यये तु यत्र स्यात्'। इत्यादिदण्डवाधप्रकरणोक्तकात्यायनवचनसंवादात् । पापन्तु स्तोकमत्येव । आचार्याः पितरः पुत्रास्तथैव च पितामहाः । मातुलाः श्वशराः पौत्राः श्यालाः सम्बन्धिनस्तथा ॥ एतान्न हन्तुमिच्छामि नतोऽपि मधुसूदन । पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः ॥ इति भगवहौतादर्शनात् । अत एवाततायिनमपि रावणं हत्वा रामस्य प्रायश्चित्ता For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy