SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४२ दण्ड विवेकः । किञ्चैवं चौर्याधिकारे ब्राह्मणमुपक्रम्यअवृत्तौ प्रायश्चित्तौ सः। इति दण्डवाधप्रकरणव्याख्यातगोतमवचने प्रायश्चित्तोपदेशो विरुध्येत। यत्तु नारायणौयं मतमङ्गच्छेदादिरूपं हननं मनुवचनार्थो न त्वात्यन्तिकमिति तच्चिन्त्यम् । __ अङ्गच्छेदादिनाप्यात्मरक्षणानुपपत्तौ विध्यतिक्रमतादवथ्यात्। अन्यायश्चायं यदात्मरक्षणार्थ ब्राह्मणस्य वध इति ब्रह्मवधे कामकृते प्रायश्चित्तस्य प्राणान्तिकत्वात्। __ 'अनशनेन कर्षितोऽनिमारोहेत्'।। __ इति काठकश्रुतिदर्शनात् । दादशवार्षिकमुक्ता-एतदेव व्रतमोत्तमामुच्छासाचरेत्। इत्यापस्तम्बादिस्मरणाच्च। तस्मादलमनेन। प्रक्षालनादि पङ्कस्य दूरादस्पर्शनं वरम् । इति न्यायात्। अपि च परेणापि युक्तः सर्वात्मना राष्ट्र गोपयेत् 'सर्वत आत्मानं गोपयेत्,' इति विष्णुवचनादात्मरक्षणवत् प्रजानां रक्षणं विहितम् । एवं शरणागतानाम् । अतस्तदर्थमपि ब्राह्मणो हन्तव्यः स्यात् प्रजादिरक्षणविधेरवश्यानुरोधात् । अथ यथा 'दैक्षं पशुमालभेत' इति श्रुतेः। १ घ अनुरोध्यत्वात् । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy