SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २४४ Acharya Shri Kailassagarsuri Gyanmandir दण्डविवेकः । चरणं घटते । अत एवोद्यतासिमपि ब्राह्मणमश्वत्थामानं भ्रातरश्च कर्णं हत्वा तत्पापापनोदनाय युधिष्ठिरस्याश्वमेधयजनमुपपद्यते । अत एव पापशङ्कया विरतयुद्धं' वीभत्सुं प्रवर्त्तयतापि भगवता आततायिवधाभ्यनुज्ञानं न दर्शितमपि तत्तदभिप्रेतं शरीरमनः संयोगविशेषनाशरूपं मरणविशेषेण नाशमात्रतयाऽपि परिग्टह्यात्मानं सच्चार्य तस्य नित्यत्वादवध्यत्वेन तत्र तदसम्भवं प्रतिपादयितुमलौकिकमपि सांख्यमतमवतारितम् । तथाच विचिकित्सन्तमुपलभ्य, - अपि चेदसि पापेभ्यः सर्व्वेभ्यः पापकृत्तमः । सर्व्वं ज्ञानवेनैव वृजिनं सन्तरिष्यति ॥ इति गत्यन्तरं दर्शितम् । तदर्थश्वाशक्यानुष्ठानमपि योगतन्त्रमुपन्यस्तम् । अत एव युधिष्ठिरेण गोचवधपापापनोदनाय पृष्टो व्यासोऽपि भगवानभ्यनुज्ञानमनादृत्याश्वमेधमेवोपदिष्टवानिति दिक् । एवञ्च मन्वादिवचनानां ब्राह्मणेतरपरत्वे स्थिते “ हत्वा तं प्रहरन्त” मित्यादिभविष्यपुराणवचनमपि तथैव नेयमेकमूलकत्वेन लाघवात् । यथाव्याख्यातपरत्वे दण्डगौरवानुपपत्तेः, अस्मिन्नेवार्थे सुमन्तस्वचमपि संवदति । अथ नैकमिदं स्वचं येन तदुक्तसंवादः स्यादपि तु सूत्रत्रयमिदमित्याह भवदेवभट्टः । १ ए - युद्धविमुखं । २ व पुस्तके उपालभ्य । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy