SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३४ दण्डविवेकः । त्वात् पश्चात्कारिणि नारदीयमल्पदण्डाभिधानं तदनुबन्धिकलहविषयमिति रत्नाकरः । प्रतिताडयन्नित्यत्र तुल्यरूपं ताडनं विवक्षितमिति धर्मकोषे त्रिलोचनमिश्राः। आततायिनमाहतुर्मनुवसिष्ठौ,अग्निदो गरदश्चैव शस्त्रपाणिर्द्धनापहा । क्षेत्रदारापहारौ च षडेते आततायिनः ॥ विष्णुकात्यायनी,उद्यतासिं कराग्निच्च शापोद्यतकरन्तथा । आथर्वणेन हन्तारं पिशुनञ्चापि राजनि । भा-तिक्रमिण व विद्यात् सप्ताततायिनः ॥ मत्स्यपुराणम्,गृहक्षेत्रापहर्तारं तथा पत्न्यभिगामिनम् । अग्निदं गरदन्चैव तथाह्यभ्युद्यतायुधम् ॥ अभिचारञ्च कुवाणं राजगामि च पैशुनम् । एतान् हि लोके धर्मज्ञाः कथयन्त्याततायिनः ॥ ब्रहद्दिष्णुः,उद्यतासिः प्रियाधर्षों धनहर्ता गरप्रदः । अथर्वहन्ता तेजोनः षडेते आततायिनः ॥ अब धनापहेत्युक्त्वा क्षेत्रापहारौति पृथगभिधानं धनस्य बहुतरत्वप्रतिपादनार्थं तेन क्षेत्रस्य शासनादेरल्पस्यापि धनस्य बहुतरस्यैव यस्यापहरणे वर्तनस्योच्छेदो भवति १ घ कामिणम् । २ क ग पुस्तके-हता । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy