SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org org Acharya Shri Kailassagarsuri Gyanmandir २२२ दण्डविवेकः। दःखोत्पादे शाखाच्छेदेऽङ्गच्छेदे यथाक्रमं विपणचतुष्यणाष्टपण-घोडशपणा दण्डा इति हलायुधः। एवमेव रत्नाकरः। मिताक्षरायान्तु,दिपणाद्दिगुण इत्यत्र द्विगुणप्रभृतिरिति पठितम् । उक्तञ्च नात्र दिपणस्त्रिपणश्चतुष्यणः पञ्चपण इति वाच्यम्। यथोत्तरमपराधगौरवेऽप्य श्रुतत्रित्वादिसंख्याश्रवणे गौरवात् । तस्मादरं श्रुतदित्वसंख्याया एवाभ्यासोऽस्तु तेन दिपणचतुष्यणषट्पणाष्टपणक्रमेण दण्ड इति । क्षुद्रपशूनामेव लिङ्गच्छेदने मारणे च मध्यमसाहसो दण्डः। पशुस्वामिने च मूल्यदानं महापशूनान्तुरगादौनामेतेषु दण्डस्थानेषु दिपणादयो दण्डादिगुणाः कार्या इति। विष्णः, गजाश्वगवोष्ट्रोपघातौ चैकपादः कार्यः ग्राम्यपशुधातौ कार्षापणशतं दण्डः। पशुस्वामिने च तन्मूल्यं दद्यात् । अरण्यपशुधातौ पञ्चाशतं कार्षापणान् पक्षिघाती मत्स्यघाती च दशकार्षापणान् कौटोपघाती कार्षापणम् । अतज्जौविनामेष दण्ड इति कृत्यसागरस्मृतिसारौ। हलायुधस्त्वाह, परपरिगृहीत कौटमत्स्यादिवधे दण्डोऽयं स्वामिने मूल्यदानाभिधानादिति । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy