SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दण्डपारुष्यदगडः। २२१ कात्यायनः, देहेन्द्रियविनाशे तु यथा दण्डं प्रकल्पयेत् । तथा तुष्टिकरं देयं समुत्थानञ्च पण्डितैः॥ समुत्थानव्ययञ्चासौ दद्यादाव्रणरोहणात्। देयं दाप्यमित्यर्थः। अत्र प्रतिभाति इन्द्रियादीनां यत्रात्यन्तमेव नाशः करादौनां कमीक्षमत्वञ्च भवति तत्र पौडितस्य तुष्टिकरं नष्टाङ्गगौरवलाघवानुसारेण ताडको दाप्यः । तेषां प्रकृतिलाभपक्षे तु समुत्थानव्ययमात्रमिति व्यवस्था। विष्णुः,सधै पुरुषपौडाकराः समुत्थानव्ययं दद्युम्यिपशुपौडाकराश्च । अत्रापि पशूनां प्रकृतिलाभपक्षे तत् समुत्थानव्ययमात्रमन्यत्र स्वामिने पशुप्रतिनिधिमूल्ययोरेकतरदानमिति द्रष्टव्यम्। अत्र याज्ञवल्क्यः,दःखेषुर शोणितोत्पादे शाखाङ्गछेदने तथा । दण्डः क्षुद्रपशूनान्तु दिपणाद्दिगुणः क्रमात् ॥ लिङ्गस्य छेदने मृत्यावधमो मूल्यमेव च । महापशूनामेतेषु स्थानेषु द्विगुणो दमः ॥ शाखा अनारम्भकशृङ्गादिरूपा अङ्गमारम्भकं करचरणादि। तेन क्षुद्रपशूनामजादौनां शोणितं विना १ मूले-रोपणात्। २ मुले दुःखेऽथ । ३ घ म्हत्यौ मध्यमः । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy