SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org वाक्पारुष्यदण्डः । व्याप्तेः । Acharya Shri Kailassagarsuri Gyanmandir मुद्देगजनकं वाक्यं तदाक्पारुष्यमिति सामान्यलक्षणपरमिति मिताक्षराकृता व्याख्यातम् । तच्चिन्त्यम्, – यत्रोच्चैरवद्यभाषणं नास्ति तत्र हङ्कारानुकारादाव १८७ यदाह कात्यायनः, - हङ्कारं कामनश्चैव लोके यच विगर्हितम् । अनुकुर्य्यादनुब्रूयाद्दाक्पारुष्यं तदुच्यते ॥ तच देशाक्षेपो यथा, - गौडीयं प्रति कलहप्रिया गौडा इत्यादि । जात्याक्रोशो यथा ब्राह्मणं प्रति अत्यन्तलुब्धा ब्राह्मण इत्यादि । कुलाक्रोशो यथा क्रूरचरिता वैश्वानरा इत्यादि न्यङ्कसंज्ञितं निकृष्टाङ्गसंज्ञावत् । निकृष्टाङ्गप्रकाशनेन सत्येनासत्येन वाक्षेप इत्यर्थः । तथाहि कात्यायनः, - यत्त्वसत्संज्ञितैरङ्गैः परमाक्षिपति क्वचित् । अभूतैरथ भूतैर्वा निष्ठुरा वाक् स्मृता तु सा ॥ कल्पतरावपि न्यङ्गसंज्ञितमश्लीलमिति व्याख्यातम् । तथा निकृष्टाङ्गसङ्गवदिति रत्नाकरः । हस्ततर्ज्जनादिकमिति हलायुधः । स्मृतिसारकृता तु न्यङ्गसंज्ञितमिति पठित्वा न्यङ्गमश्चौलमिति व्याख्यातम् । मेहनाद्युल्लेखवदिति मिश्राः । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy